पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
काव्यमाला ।

नरवाहन कान्तां तामवाप्स्यसि धृतिं श्रियः ॥ २८७ ॥
इति निशम्य कथां स मुनेर्वचः प्रियतमाविरहानलतापितः ।
वनमहीषु चचार निजां पुरीमनुसरञ्शनकैर्नरवाहनः ॥ २८८ ॥
इति क्षेमेन्द्रविरचितायां बृहत्कथायां विषमशीलनामा दशमो लम्बकः समाप्तः.



मदिरावतीलम्बकः ।


अनङ्गेनावलासङ्गाज्जिता येन जगत्रयी ।
स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥ १॥
अनेकसौरभोद्गारव्याकुलीकृतषट्पदैः
प्रक्षुभ्यत्कोकिलकुले रसत्समदसारसे ॥२॥
वलत्समीरणोद्भूतघनकिज्जल्कपिञ्जरे ।
संजाताधिकसंतापस्तत्र वत्सेश्वरात्मजः ।
निजदेशपरित्यागे बभूवं कुरिसादरः ॥ ३ ॥
स गत्वा विरहक्षामः पदैः श्लथविशृङ्खलैः ।
कलहंसकुलालोलं प्राप भागीरथीतटम् ॥ ४ ॥
तरुणौ तत्र विश्रम्ससंभोगाविव रूपिणौ ।
अग्राम्यवस्त्राभरणौ ददर्श द्विजपुत्रकौ ॥ ६ ॥
रतिहीनमिवानङ्गं विलोक्य नरवाहनम् ।
ॐ नमो मन्मथायेति ब्रुवाणौ तौ प्रणेमतुः ॥ ६ ॥
निजवृत्तान्तमावेद्य पृष्टौ राजसुतेन तौ ।
चक्रतुः स्वकथाख्याने लज्जिताविव मानसम् ॥ ७ ॥
तयोरेकोऽब्रवीद्देव श्रूयतां नौ विचेष्टितम् ।
वल्लमें प्रेरयत्येवा ब्रह्मदर्शननिर्वृतिः ॥ ८ ॥
अस्ति शोभावती नाम कलिङ्गाविषये पुरी।
तस्यां यशस्करो नाम बभूव ब्राह्मणोऽग्रणीः ॥ ९ ॥
तस्य मेखलिकाख्यायां ब्राह्मण्यां तनयः प्रियः ।


"बभूवास्तलिदिर कति पाठो भवेत. २. श्या' ख.