पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०. विषमशीले-मूलदेवकथा ।
४३३
बृहत्कथामञ्जरी ।

गच्छ मत्सनुना बद्धो न चिरात्त्वं भविष्यसि ।। २.७४ ।।
इति प्रतिज्ञां श्रुत्वाहं तस्या यातो निजां पुरीम् ।
याति काले कदाचित्सा छन्ना तामाययौ पुरीम् ॥ २७५ ॥
तस्थौ च तत्र गणिकामिषेणालक्षिता क्षिति
कामुकान्साथ संप्राप्तान्धियैव विमुखान्व्यधात् ॥ २७6 ॥
पूर्वे यामे स्नानविधि द्वितीये भोजनक्रमम् ।
तृतीये मण्डनारम्भं चतुर्थे तु कथान्तरम् ॥ २७७ ॥
निजैः परिजनैः कृत्वा कामिनामिति वञ्चनाम् ।
शीलसंरक्षणपरा तस्थौ मत्संगमाशया ॥ २७८ ॥
नवां वाराङ्गनां प्राप्तां श्रुत्वाहं तामशङ्कितः ।
प्रविष्टः कामुको भूत्वा तद्गृहं स्मरमोहितः ॥ २७९ ॥
सा मां प्रौढं परिज्ञाय संगम विदथे मया ।
मत्तश्च गर्भं संप्राप्य प्रच्छन्ना स्वपुरं ययौ ।। २८० ॥
सासूताथ सुतं काले संप्रवृद्धिं कलानिधिम् ।
मातुर्ग्रहात्समभ्येत्य मां द्यूतैः सोऽजयत्कृती ॥ १८१ ॥
स हारितानेकधनं बध्वा मां मातुरन्तिकम् ।
निनाय सा च मां प्राह सा निजानां स्वसंगमम् ॥ २८२ ॥
तीर्णा मया प्रतिज्ञासौ प्रमाणमधुना भवान् ।
इति ब्रुवाणां तां कान्तामभजं सत्यवादिनीम् ॥ २८३ ॥
इत्येवं सत्यशालिन्यो देव सन्ति पतिव्रताः
मूलदेवो निगद्येति प्रणम्य प्रययौ नृपम् ॥ २८४ ।।
अथ श्रीविक्रमादित्यो हेलया निर्जिताखिलः ।
म्लेच्छाकाम्बोजयवनान्नीन्चाहूणान्बर्बरान् ॥ २८5 ॥
तुषाराल्पारसींकांश्च त्यक्ताचारान्विश्वङ्खलान् ।
हत्या भ्रूभङ्गमात्रेण भुवो भारमवारयत् ॥ २८६ ॥
इत्येवं सत्यसंपन्नाः प्राप्नुवन्ति सभीहितम् ।