पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
काव्यमाला ।

तुरङ्गीमधिरुह्यायमस्या याने सुहृद्धते ।
अभक्षयन्नरं साशु मद्भार्या गूढशाकिनी ॥ २६२ ।।
तो रक्ताक्तमहावक्रां दृष्ट्वाहं भयविह्वलः ।
देव त्वां शरणं प्राप्तः प्रमाणमधुना प्रभुः ॥ २६३ ।।
तच्छ्रुत्वा सस्मिते राज्ञि ध्वस्तायां च तदाज्ञया ।
शाकिन्यां तत्कथामध्ये प्राह मन्त्री नरेश्वरम् ॥ २६४ ॥
आलयः सर्वपापानां देव क्रूरतराः स्त्रियः ।
अग्निगर्भाभिधस्यासीत्प्रिया भार्या द्विजन्मनः ॥ २६५ ॥
सा चौररागिणी शूले चौरमुल्लम्बिनं पुरा।
स्नेहदुःखस्मरावेशादालिलिङ्ग चुचुम्ब च ॥ २६६ ॥
तदा प्रविष्टो वेतालस्तस्याश्चिच्छेद नासिकाम् ।
छिन्ननासा च सा गत्वा पत्युर्वस्त्रान्तमग्रहीत् ॥ २६७ ॥
अनेन निगृहीताहमपापेत्यार्तराविणी ।
पित्रा मात्रा च सा सार्धं गत्वा राज्ञे न्यवेदयत् ।। २६८॥
राज्ञादिष्टेऽथ तद्भर्तुर्निग्रहे रभसं स्थितः ।
तद्वृत्तं दिव्यपुरुषः कथयित्वा ररक्ष तम् ।
इति पापाः स्त्रियो देव भवन्ति कलुषाशयाः ।। २६९ ॥
इत्युक्ते तेन भूपालं मूलदेवोऽप्यभाषत ।
पापा नैकान्ततो देव सन्ति साध्व्योऽपि योषितः ॥ २७० ।।
मत्पप्रसिद्धिं समाकर्ण्य धूतैर्लभ्यास्मि नो बलात् ।
इत्युद्वाहविधौ बद्धनियमां शङ्किता सदा ॥. २७१ ।।
पुरा धूर्तः प्रसिद्धोऽहं युक्त्या धूर्तैरनिर्जिताम् ।
अवापं विप्रतनयां विवाहे छन्नवेषभृत् ।। २७२ ॥
ततस्तां विहितोद्वाहामजदं प्राज्ञमानिनीम् ।
हा वञ्चितासि गच्छामि स्वतिते(?) विजितं मया ॥ २७३ ॥
इति ब्रुवाणं मां प्राह प्रस्थितं सा स्मितव्रता ।