पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
]
४३१
बृहत्कथामतरी।

1॥ २४९।।
॥ २५२ ।।
.."स सततं नासौ त्वयि निरादरः ॥ २६३ ॥
कलिङ्गसेना श्रुत्वेति दृष्ट्वा कार्पटिकोदितम् ।
सौभाग्यगर्वशैथिल्यं तत्याज मृगलोचना ॥ २९४ ।।
ततः श्रीविक्रमादित्यः पालयन्निखिलां महीम् ।
....."कर्पूरधवलाश्चकार यशसा दिशः ॥ २5५ ॥
अत्रान्तरे शत्रुजितः कश्चिदेत्य नृपात्मजः ।
चक्रे विषमशीलस्य सेवां द्वादशवार्षिकीम् ॥ २5६ ॥
चिरस्थितं राजपुत्रं सोऽथ कार्पटिकवतम् ।
तं खण्डकपटाभिख्ये व्यधादेत्य.." रे नृपम् ॥ २५७ ॥
सर्वर्फलपुष्पाढ्यं मणिकाञ्चनमन्दिरम् ।
स सर्वकामदं प्राप्य तत्पुरं विस्मितोऽभवत् ॥ २५८ ।।
ततः प्रतिनिवृत्ताय पुनश्वासै ददौ स्वयम् ।
चतुरम्भोधिपर्यन्तं चतुर्भागं भुवो विभुः ।। २५९ ॥
अत्रान्तरें समभ्येत्य पुनः कश्चिद्यजिज्ञपत् ।
देवं श्रीविक्रमादित्यं रोमाञ्चोद्भूतविग्रहम् ॥ २६० ॥
कृष्णशक्तिरिति ख्यातो वाहं... द्विजपुत्रकः ।
आगतः श्वशुरावासाद्भार्यामादाय तत्स्थिताम् ।। २६१ ।।