पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०, विषमशीले- केसटाख्यायिका ।
४२९
वृहत्कथामञ्जरी ।

धन्या रूपवती यस्यास्त्वं कान्तप्रवरो वरः।
आवयोरपि कर्तव्यस्त्वया पाणिग्रहोत्सवः ॥ २२३॥
इति स्वैरे समाकर्ण्य निःश्वस्याचिन्तयन्मुहुः ।
भवतीभिर्ममान्यस्मिन्मन्ये जन्मनि संगमः ।। २२४ ॥
ध्यात्वा त्येवं समासन्ने लग्ने निशि नदीतटे।
स्पष्टमम्मोविनिर्यातं सोऽपश्यत्पिशिताशनम् ॥ २२५ ॥
तं तु क्षामं तथालोक्य किं करोतीति कौतुकात् ।
अक्षिता रूपवती तमेवानुययौ शनैः ॥ २२६ ।।
सापि प्राप्य नदीतीरे राक्षसं तमभाषत ।
तद्वाक्यविस्मितं रक्षः प्राह रूपवतीं ततः ।। २२७॥
संत्रासातङ्कदुःखासां हस्ते न्यस्तेव वेधसा !
मामत्सि राक्षसपते कान्तोऽयं मुच्यतां विभो ।। २२८ ॥
एतद्वियोगायद्यत्सत्यं जीवितं निधनं मम् ।
तच्छ्रुत्वा राक्षसः प्राह स्त्री न वध्या मभाबले ।। २२९ ॥
सावदद्भर्तृहीनायाः का मे वृत्तिर्निशाचर ।
सोऽब्रवीत्सस्मितं सुभ्रु सदा वर्तस्व भिक्षया ।। २३० ॥
सापि को मे ददातीति प्रोवाच रजनीचरम् ।
सोऽब्रवीच्छतधा यातु तत्तुभ्यं न ददाति यः ।। २३१ ॥
ततो रूपवती आह भर्तृभिक्षां त्वमेव मे
देहीति तनिषेधात्तु तद्रक्षः शतधा ययौ । २३२
मोचयित्वेति भर्तारं गत्वा तत्सहिता गृहम् ।
निशां निनाय तद्वक्रविन्यस्तानिमिपेक्षणा ।। २3३ ।।
प्रातर्जन्यावली यात्रारम्भे वृद्धद्विजन्मनः !
अवाप्य परिणीतां तां नावा गन्तुं समुद्ययौ ॥ २३४ ॥
मत्पुत्रोऽस्याः कुरूपोऽसौ केसटं वीक्ष्य न प्रियः ।
भविष्यतीति स ध्यात्वा छलान्नद्यां तमक्षिपत् ।। २३५।।