पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
काव्यमाला ।

कदाचित्तीर्थयात्रायां यातः पथि ददर्श सः ।
यन्न्यात्र()प्रस्थितान्विप्रान्विशेषोचितभूषितान् ॥ २१० ॥
तन्मध्यादवदद्वृद्धः केसटं सुन्दराकृतिम् ।
भद्र वृद्धस्य कार्येऽस्मिन्सहायो मे सखे भव ॥ २११॥
अस्ति मे तनयो वक्रनासिको विकटाननः ।
लम्बोदरो दीर्घग्रीवो दन्तुरः खलतिः कृशः ॥ २१२ ॥
तदर्थं धनलुब्धेन मया विप्रो महाधनः ।
सुतां रूपवतीं नाम याचितो धनशालिनीम् ॥ २१३ ॥
विवाहः प्रस्तुतोऽद्यैव निशि तत्र ममात्मजम् ।
दृष्ट्वा कुरूपसाकां ना(१)न जाने किं करिष्यति ॥ २१४॥
अतस्त्वं मन्मथाकारः साहाय्यं कर्तुमर्हसि ।
मत्पुत्रार्थं परिणये प्राप्नुयाद्येन कन्यकाम् ।। २१९ ।।
तच्छ्रुत्वा बाढमित्याह केसटः स्वच्छचेतसाम् ।
कथं परोपकारेषु निषेधे वाक्प्रवर्तते ॥ २१६ ॥
ततः सोष्णीषकुसुमापीडकल्पितशेखरः ।
कुसुमायुधसच्छायो नीतस्तेन द्विजालयम् ॥ २१७ ।।
विवाहवसुधां प्राप्य स ददर्श द्विजात्मजाम् ।
रूपयौवनलावण्यैः पुनरुक्तविभूषणाम् ।। २१८॥
सखीनां सह कन्याभ्यां कटाक्षकिरणैर्दृशः ।
फुल्लेन्दीवरमालाङ्गं विदधानामिवोत्सवे ॥ २१९ ।।
तां दृष्ट्वा केसटस्याभून्मनसि स्मयशालिनः ।
अहो मे दर्शनादस्या धन्यता नेत्रयोरभूत् ॥ २२० ।
ततः केसटमालोक्य श्रृङ्गारमिव रूपिणम् ।
आजानुबाहुदीर्घाक्षं परि""क्तमिव त्विषाः ॥ २११ ॥
कर्णोपान्तमुपेत्यास्य तत्सल्यावूचतुः शनैः ।
एकानुरागवत्याख्या परा श्रृङ्गारवत्यपिः॥ २२२ ॥