पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०. विषमशीले-केसटाख्यायिका
४२७
बृहत्कथामञ्जरी

इत्युक्तस्तत्परिजनैरहं तानवदत्तदा ।
अयमेव स भूपालः श्रीमान्कमललोचनः ।
यत्कृते यूथमायाता राजकन्यायुगानुगाः ॥ १९८ ।।
इति मद्वचनं श्रुत्वा ते प्रणम्य महीभुजे ।
ददुर्विषमशीलाय हृष्टा राजसुताद्वयम् ॥ १९९ ॥
इति राजपुत्रीद्वयलाभः ॥ ७ ॥
ते कन्यके ततः प्राप्य विश्वकर्मसुरालयम् ।
प्रविश्यापश्यदत्यन्तकान्तामुत्कीर्णपुत्रिकाम् ॥ २०० ॥
तां दृष्ट्वा नयनानन्दसुधां भेजे स विस्मयः ।
देवो विषमशीलोऽपि मदनानलविक्रिते ॥ २०१॥
तेन पृष्ठः स वेतालः केयमित्यतिकौतुकात् ।
उवाच शिल्पिना देव कृतेयं सालभञ्जिका !! २०२॥
कलिङ्गराजतनयामालोक्य सदृशाकृतिम् ।
सेयं कलिङ्गसेनाख्या रूपकारेण निर्मिता ॥ २०3।।
श्रुत्वेति वेतालवचस्तत्प्राप्तिन्यस्तमानसः ।
अभूत्कलिङ्गयात्रायां प्रस्थानाभिमुखो नृपः ॥ २०४॥
अत्रान्तरे समभ्येत्य वणिक्पुत्रो व्यजिज्ञपत् ।
तं. देव मम नागेन हर्म्यस्था दयिता हृता ।। २०५ ।।
तां विलासवतीं नाम नीतामालोक्य वल्लभाम् ।
कुञ्जरेन्द्रेण तेनाहं निखिलं व्याकुलोऽभवम् ॥ २०६
ततो मां दुःखसंतप्तं कश्चिदभ्यागतो द्विजः ।
आश्वासयन्प्राह सखे मा विवृं""वृथा कृथाः ॥ २०७॥
भवन्त्यसिन्भवाम्भोधौ म्राम्यतां कर्ममारुतैः ।
संयोगाश्च वियोगाश्च स्थायिनो न हि देहिनाम् ॥ २०८।।
अभवत्ताम्रलिप्तायां देसटस्य द्विजन्मनः ।
तनयः केसटो नाम कन्दर्प इव मूर्तिमान् ।। २.०९ ॥