पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
काव्यमाला ।

तस्मै कृतोपकाराय सोऽथ शाखामृगः फलम् ।
शबराय ददौ येन सोऽभवच्चिरजीवितः ।। १८६ ॥
एवंविधः शबराधीशो नृपतिनार्थितः ।
दिव्यौषधेन केनापि चक्रे मां स्वस्थविग्रहम् ॥ १८७ ॥
घोराजगरभावान्मां मोचयित्वा स भूभुजे ।
स्मरमुक्तावलीं कन्यां शबराधिपतिर्ददौ ॥ १८८॥
इति शबरराजपुत्रीलामः ॥ ५॥
अत्रान्तरे गजक्रोडौ तत्र दर्पादभिद्रुतौ ।
राजा जघान तौ चाशु मुक्तशापौ बभूवतुः ॥ १८९ ॥
इयं वातायने सुप्ता वणिक्पुत्रस्य वल्लभा ।
मयाकृष्य कराग्रेण पुरानीता सुलोचना ॥ १९० ॥
इत्युदीर्य तयोरेको गजरूपो महाभुजः
तां विन्यस्य ययौ व्योमा परेण सहितः क्षणात् ॥ १९१ ॥
तयोः प्रयातयोर्मुक्तशापयोः सा वणिग्वधूः ।
पुत्रीवाश्वासिता राज्ञा तत्याज विपुलं भयम् ।। १९२ ।।
इति गजवराहशापमुक्तिः ॥ ६ ॥
अत्रान्तरे दिनारम्भे कन्यायुगमहश्यत ।
रूपयौवनलावण्यविलासकुलमन्दिरम् ।। १९३ ॥
ततस्तदनुगाः पृष्टा मया कौतुकशालिना ।
ऊचुः कटाहद्वीपेशसुतेयं कमलेक्षणा ॥ १९४ ॥
सप्तद्वीपपतेर्भार्या भाविनी भुवि विश्रुता ।
अस्याश्च मातुलसुता द्वितीयेयं मृगेक्षणा ॥ १९५ ॥
गुरुभ्यां प्रहिते चेते विक्रमादित्यभूभुजे ।
अब्धौ भग्ने प्रवहणे निगीर्णे जलचारिणा ॥ १९६ ॥
विधातुरानुकूल्याच मुक्ते धीवरदारितात् ।
मत्स्यादयं स देवः श्रीविक्रमादित्य एव. किम् ॥ १९७ ॥