पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०, विषमशीले-शवरराजपुत्रीलाभः ।]
४२५
बृहत्कथामञ्जरी

उच्चैःश्रवःकुले जातं पुरा राजा तुरङ्गमम् ।
ऊह्म श्रीविक्रमादित्यो मृगयारसिको ययौ ।। १७3 ॥
हृतः पवनवेगेन तेनाश्वेन बने नृपः।
अनुयातोऽहमेवैको योजनानां शतत्रयम् ॥ १७4 ॥
पादलेयं ददौ यक्षः प्राड्यह्यं मन्नतोषितः ।
तेन मे क्षणलङ्घयाभूत्सुदूरापि वसुंधरा ।। १७५ ॥
ततोऽस्तशिखरं याते दिनेशे प्राह मां नृपः।
अस्ति वह्निशिखाख्यो मे वेतालश्विरसेवकः ॥ १७६
गृहं तेन विप्रस्य स्वानुमाक्रन्दिन पुरा ।
मोचयित्वा निशाचर्यानिर्गतोऽहं प्रसङ्गतः ॥ १७७ ।।
स्मरक्षं सुविपुलाद्वेतालं नयनामयात् ।
ततः प्रभृति दास्ये मे सर्वत्राज्ञाधरोऽभवत् ॥ १७८ ॥
इत्युक्त्वा भूभुजा ध्यातं तमपश्यमहं पुरः ।
वेतालं प्रबलज्वालाकरालानलमूर्धजम् ॥ १७९ ॥
अत्रान्तरे फलाहारान्महाजगरतां गतः।
अहं स्वभावशक्तिर्हि द्रव्याणां केन लक्ष्यते ॥ १8०॥
ततः पल्लीपतिं शीघ्रं शवराधिपतिं नृपः ।
तत्र तं प्रार्थयामास प्रणतं सिद्धिमुक्तये ॥ १८१॥
यस्थ वानरदत्तेन फलेनापूर्वशक्तिमा ।
यातो ससदशशती वत्सराणां किलायुषः ॥ १८2॥
सोऽप्यपश्यत्पुरा मार्ग उद्यानं वानरं पुनः ।
दीनावलोकिनं दुःखात्पतन्तं पादयोर्मुहुः ॥ १८३ ।।
विचिन्तयन्निङ्गितज्ञः स ततः पूर्वमाशयम् ।
दिशो विलोक्य तज्जायामपश्यत्तद्विलम्बिनीम् ॥ १८४ ॥
तरुशाखानिरूद्धा तां वेष्टयन्तीं स वानरीम् ।
अमोचयत्कपिः प्रीतो ननर्त च ततो मुदा ॥ १८५ ॥


'दासो में इति पाठो भवेत. २. 'पूर्णमाशय इति भवेत,