पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
काव्यमाला ।

परिणीयेन्दुवदनां ततस्तां पृथिवीपतिः ।
हेममौक्तिकरत्नानां कूटानप्यचलोपमान् ॥ १६० ॥
दिव्येनोद्वाहविधिना प्रयाते दिव्यकन्यके ।
कुलाधिदेवते कान्तं स्मरसौभाग्ययोरिव ॥ १६१ ॥
तं दिव्यहरिण हारिरत्नकान्तिविचित्रितम् ।
लब्ध्वा विवेश स्वपुरं सानुगो वल्लभासस्वः ।। १६२ ।।
अतः संभोगसुभगः तां यदृच्छया।
केनापि द्विजपुत्रेण ददर्शालेख्यपुत्रिकाम् ॥ १६३ ।।
तां दृष्ट्वा चित्रफलके त्रैलोक्योन्मादनौषधिम् ।
स्वप्ने तामेव चापश्यत्स्वेत्यङ्क (?) इव लम्बिनीम् ॥ १६४ ॥
नग्नकृषणकां ज्ञात्वा तां चित्रलिखितां प्रियाम् ।
राज्ञो मलयसिंहस्य पुत्रीं मलयवासिनः ।। १६५ ॥
कान्तां मलयवत्याख्यां विलासतिलकं रतेः ।
स्वयं गत्वा सहामात्यो लेभे हरिणलोचनाम् ॥ १66 ॥
इति कन्याचतुष्टयप्राप्तिः ॥ ४ ॥
ततः कान्तां समादाय प्रत्यायाते निजां पुरीम् ।
राज्ञि श्रीविक्रमादित्ये बभूव जगदुत्सवः ॥ १६७ ।।
देवी कलिङ्गसेनाथ तस्थानमहिषी रुषा।
ईर्ष्याकलुषिता चक्रे गणानां दयितागसाम् ॥ १६८ ॥
सा प्राह देवसेनाख्यं पत्युर्बिभ्रमभाजनम् ।
वीरं कार्पटिकं आतः स्वामी ते बहुवल्लभः ॥ १६९ ॥
दृष्ट्वा मत्सदृशीं पूर्वमुत्त्कीर्णा सालमञ्जिकाम् ।
कलिङ्गराज निर्जित्य जितकासी शहार माम् ॥ १७०।।
आद्यायां भूपतिसुताः कान्तो नवनवो युवा ।
सेवते बत: सौभाग्यं सन्तः कस्य वशे प्रियः ॥ १७१ ॥
इति देवीवचः श्रुत्वा प्राह कार्पटिकस्तथा ।
देवि स्वयं समायाति देवं दिव्याङ्गनाजनः ॥ १७२ ।।