पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०. विषमशीले-कन्याचतुष्टयमाप्तिः ।
४२३
बृहत्कथामञ्जरी

तमिम रत्नसारङ्ग कन्ये चेमे सुलोचने ।
विक्रमादित्यदेवाय नयेत्युक्त्वैव सा ददौ ॥ १४८ ॥
ततस्तामहमामन्त्र्य प्राप्तो वैदर्भभूपतिम् ।
त्वच्छासनव्रतं वीरं सर्वं चास्मै न्यवेदयम् ॥ १४९ ॥
इति यक्षीसमागमकथा ॥३॥
अत्रान्तरे संहतास्ते पापा म्लेच्छशकाधिपाः ।
ज्ञात्वा तदर्थमायान्तीं सिंहलाधिपतेः सुताम् ।
पथि तस्थुः सुसंरब्धाः सेनाच्छादितदिक्तटाः ।। १५० ।।
ततो विदर्भराजेन तेषां विक्रमशक्तिना।
बभूव सुचिरं युद्धं, विलयाद्वीक्षितं सुरैः ॥ १६१ ।।
ततः सा यक्षतनया सह गुह्यक सेनया ।
सेनां विदर्भाधिपतेरविशद्विजयश्रिये ॥ १५२ ।।
अथ तेषु निरस्तेषु रणे भग्नेषु शत्रुषु ।
आगताः पृथिवीपालाः सर्वे तद्वशवर्तिनः ॥ १६३ ॥
सिंहलेश्वरपुत्री च ते च त्रिदशकन्यके ।
आयातास्त्वद्विवाहाय सहिता सर्वराजभिः ॥ १५४ ।।
इतः स कटकावर्तों वर्तते योजनत्रये ।
प्रत्युद्गमनसत्कारस्तत्र देव विधीयताम् ॥ १5५ ।।
श्रुत्वेत्यनङ्गदेवेन कथितं पृथिवीपतिः ।।
आदिदेश महोत्साहो यात्रासंरम्भदुन्दुभिः ॥ १५६ ॥
ततो गर्जद्गजानीकसंछादितदिगन्तरान् ।
नातिदूरं निजपुरादत्वापश्यन्नरेश्वरान् ॥ १5७ ।।
नामानि देशभूपालैः सूचितैर्बन्दिभिः पुरा ।
प्रणम्यमानः सुमुखीं वरयित्री ददर्श सः ॥ १5८ ।।
तां सिंहलेश्वरमुतां वीक्ष्य सारङ्गलोचनाम् ।
विप्रलब्धं स्मरं मेने रतिसौभाग्यगर्वितम् ॥ १५९ ॥