पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
काव्यमाला ।

सिंहलेन्द्रेण तनयां वित्तीर्णा शौर्यशालिनीम् ।
ज्ञात्वा विषमशीलाय सर्वे म्लेच्छशकाभिधाः ॥ १३५ ॥
हर्तुमभ्युद्यताः पापा विधेयं तत्र यत्क्षमम् ।
इत्यस्मिन्भक्तिचिन्तैषा स च तान्निहनिष्यति ॥ १३६ ।।
यक्षाङ्गनायामुक्त्वेति विगतायामदृश्यताम् ।
तद्दिव्यकान्तायुगलं स च हेमकुरङ्गकः ॥ १३७ ॥
तद्वृत्तान्तं मया पृष्टा सा यक्षी प्राह मां पुनः ।
पुरा घण्टनिघण्टाख्यौ दानवेन्द्रौ बभूवतुः ॥ १३८॥
त्रैलोक्यकण्टको मत्वा दुर्जयौ तौ प्रजापतिः ।
असृजत्कान्तिसर्वस्वमिमे त्रिदशकन्यके ॥ १३९ ॥
एतद्दर्शनसंजातगाढमन्मथपावकौ।
ममैवेति ममैवेति भेदादिति गतौ क्षयम् ॥ १4० ।।
त्यक्तं वैश्रवणायैते कान्ते कमलयोनिना ।
उचिताय प्रदातव्ये विधायेत्यथ संविदम् ॥ १४१ ॥
माणिभद्रगृहे न्यस्ते कुबेरेण ततः खयम् ।
पालयाम्यहमेवैते गुणैः को न वशीकृतः ॥ १४२ ॥
एतयोर्विक्रमादित्यो देव एवोचितः पतिः ।
अयं च हेमहरिणो योग्यस्तस्यैव हर्षदः ॥ १४३ ॥
नक्षत्रं मृगशीर्षं तु कर्षन्तं केलिकौतुकात् ।
दृष्ट्वा जयन्तं तनयं शक्रश्चिन्तापरोऽभवत् ॥ १४४ ॥
स ध्यात्वा तद्विनोदाय काञ्चनं विश्वकर्मणा ।
अकारयन्मणिमृगं. पीयूषावानजीवितम् ॥ १.४5 ॥
सोऽयं पुरा दशास्येन विजित्य निदेशालयम् ।
सार्धमिन्द्रजिता नीतो लङ्कां रत्नाङ्कतोरणाम् ॥ १४६ ।।
कालेन निहते तस्मिन्रणे रामेण रावणे ।
दत्तो विभीषणेनायं मह्यमुत्सवसंगमे ।। १४७ ॥