पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०. विषमशीले यक्षीसमागमकथा ।
४२१
बृहत्कथामञ्जरी ।

टेण्टाकरालचरितं प्रशंसामुखराननः ।
बृहस्पतिस्ततः प्राह विहस्य मरुतो पतिम् ॥ १२३ ॥
एवंविधा भवन्त्येव द्यूतकाराः पदं धियः ।
कुट्टिनीकपटो नाम बभूव द्यूतकृत्पुरा ॥ १२४ ॥
समस्तपापकोशस्य नरकक्षितिरक्षया ।
गतासोस्त्तस्य गणिका कालेन यमसद्मिनी ।। १२५ ॥
सुरार्चनाद्दिनं चैकं विदधाति च शक्रताम् ।
भेजे पृष्टोऽथ तां पूर्वं दिनमेकं सुरेन्द्रताम् ॥ १२6 ॥
तत्र बुद्धया विनिश्चित्य दाता शर्वार्चनव्रतः ।
स्नात्वा सर्वेषु तीर्थेषु चिरमासीत्सुरेश्वरः ॥ १२७ ।।
इति धूर्ता भवन्त्येव द्यूतकारमहाशयाः ।
एतद्गुरोर्वचः श्रुत्वा विस्मितोऽभूत्पुरंदरः ॥ १२८ ।।
इति टेण्टाकरालाख्यायिका ॥ १ ॥
द्यूतकारकथामेतामाकार्ण्य ब्रह्मराक्षसात् ।
प्रयाते डाकिनीकेन वञ्चितः स्वयमाश्रमम् ।। १२९ ॥
कदाचिदथ कालेन क्षुत्क्षामेन मया द्विजः।
गृहीतो निशि चुक्रोश विक्रमादित्यमीश्वरम् ॥ १३० ॥
तच्छुत्वा स नृपोऽभ्येत्य स्वङ्गेनाशु जघान तम् ।
तत्क्षणं ....."यातं ररक्ष च कृपानिधिः ।
ततः प्रभृति दासोऽहं तस्य भूमिपतेर्विभोः ।। १३१ ।।
इत्यग्निशिखवृत्तान्तं श्रुत्वा यमशिखः स्मयात् ।
मनसा विक्रमादित्यं प्रणनाम कृताञ्जलिः ॥ १३२ !!
इति खण्डकापालिकवधः ॥ २ ॥
इत्यहं तेन भूपालमौलिलीढाङ्गिणा स्वयम् ।
रक्षिता वल्लभं प्राप्य पर निवृतिमागता ॥ १३3 ॥
साहं कीर्तिपताकेव राज्ञस्तस्य यशोनिधेः ।।
त्रैलोक्यचारिणी नित्यमस्मिन्यशपुरे स्थिता ॥ १.३४ ॥