पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
काव्यमाला ।

शापवृत्तान्तमावेद्य तस्यां वृत्तं स्वकर्मणा ।
श्रितां तां देवनिलयस्तम्भान्ते पुत्रिकाकृतिम् ॥ ११0 ॥
छागदुःखानलाक्रान्तं स निन्दन्निजसाहसम्
आदाय रत्ननिचयं ययौ नागपुरं जवात् ॥ १११ ॥
कलशान्रत्नसंपूर्णान्भूमिगर्ते निधाय सः !
तस्थौ दम्भव्रतस्तत्र प्रसिद्धिं परमां गतः ।। ११२ ॥
अशेषप्राणिभाषाज्ञ इति राज्ञा स पूजितः।
अदर्शयद्रत्नपूर्णं तस्मै कलशपञ्चकम् ॥ ११३ ॥
तत्प्रत्ययात्स भूपालो मेने सर्वज्ञमेव तम् ।
महेश्वरमिवाभ्येत्य सततं प्रणनाम च ॥ ११४ ॥
कदाचिद्भभुजा साधे देवायतनमेत्य सः ।
दर्शनात्साश्रुनयनां दृष्ट्वा तां दारुपुत्रिकाम् ।। ११5 ॥
उवाच धूर्तो भूपालं शान्तं शान्तममङ्गलम् ।
इमं सुरगृहं तूर्णं कणशः क्रियतामिति ॥ ११६ ।।
तदाकर्ण्य महीपालः सामात्यस्तं ससंभ्रमः ।
पप्रच्छ भगवन्ब्रूहि किमनिष्टं त्वयेक्षितम् ॥ ११७ ॥
सोऽब्रवीद्देव नो वाच्यमेतच्छृणु तथापि ते ।
आयुषा क्षितिरासन्ना स्थितेऽस्मिस्ते सुरालये ॥ ११८॥
समुन्मूल्य क्षणेनैतद्विपुलं सुरमन्दिरम् ।
अपरं क्रियता राजन्नित्युक्त्वा विरराम सः ॥ ११९ ॥
ततस्तद्वचनातूर्णं तमुत्पाट्य सुरालयम् ।
अन्यं महीपतिश्चके हेमरत्नाधिकद्युतिम् ॥ १२० ॥
अचिराच्छापमुक्ताथ स्वर्गं प्राप्य कलावती ।
विस्मिताय महेन्द्राय स्ववृत्तान्तं न्यवेदयत् ॥ १२१ ।।
धिया टेण्टाकराले च शापात्तामाशु मोचिताम् ।
श्रुत्वा तुष्टस्तमानाश्य शकस्तस्मै ददौ श्रियम् ॥ १२२ ॥