पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०, विषमसीले टेपटाकरालाख्यायिका ।
४१९
बृहत्कथामारी।

स तत्र रस्मां नृत्यन्ती ददर्शायतलोचनाम् ।
गन्धर्वगीतानुगतां कलाताललयोर्जिताम् ॥ 9७ ॥
ततो हास्याय नृत्यन्तं छागं सुरपतेः पुरः ।
अपश्यद्विपुलाकारमीश्वरा हि स्मितप्रियाः ॥ 9८ ॥
गन्धर्वं मुनिशापेन तं दृष्ट्वा छागविग्रहम् ।
अयं स मर्त्यश्चरतीत्यभवत्तस्य चेतसि ।। ९९ ॥
बहुकौतुकमालोक्य स्वर्गाद्भोगभुवं गतम् ।
टेण्टाकरालो दयितां शक्तो मेने ततोऽधिकम् ॥ १०0 ॥
ततस्तमेव रोमन्थलकूर्चमर्ज पुनः ।
आपणाग्रे सुखासीनमुज्जयिन्यां ददर्श सः ॥ १.०१ ।।
टेण्टाकरालस्तं दृष्ट्वा प्राह दर्शय मां सखे ।
पुनर्वृत्तं सुरपुरे दृष्टस्त्वं हास्यकृन्मया ॥ १०२ ॥
इत्युक्त्वा सावलेपं तं प्रत्याख्यानरुषा ततः ।
जधान लगुडेनाजं येन सोऽभूत्सशोणितः ॥ १०३ ॥
अथ शक्रपुरं गत्वा सुरेन्द्राय न्यवेदयत् ।
द्यूतकारिनिकारं तं छागलः कोपकम्पितः ।। १0४ ॥
शापान्तमुक्ता मुक्तेऽथ छागे गन्धर्वतां गते ।
इन्द्रः कलावतीं प्राह धिक्त्वां दुर्नयकारिणीम् ।। १०५ ।।
आनीतो दुर्विनीतोऽसौ त्रिदिवं मानुषस्त्वया ।
तस्मादनल्पकं कालं योषा दारुमयी भव ।। १०६ ।।
नरसिंहाभिधानेन राज्ञा नागपुरे कृते ।
सुरालये तत्र मित्तौ पुत्रिका त्वं भविष्यसि ॥ १०७ ॥
तस्मिन्कालेन निःशेषं गते देवगृहे क्षयम् ।
शापस्यान्तं समासाद्य पुनः स्वपदभेष्यसि ।। १०८॥
इति शप्ताः नतमुखी दुखिताः शतमन्युना ।
टेण्टाकरालमभ्येत्य सा निजं शापमभ्यधात् ॥ १०९ ॥