पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
काव्यमाला ।

एवंविधा भवन्त्येव कितवाः साहसवताः ।
टेण्टाकरालवृत्तान्तमत्रैव कथयाम्यहम् ॥ ८४ ॥
अभूट्टेण्टाकरालाख्यो द्यूतकृद्वञ्चनावधिः ।
सदा महाकालगृहे रजन्यां स स्वयं किल ।। ८५ ॥
तत्र दीपघृताभ्यक्तैरपूपैः कृतभोजनः ।
महाकालानुगान्प्राह प्रतिमादीपसंस्थितान् ॥ ८६ ॥
अस्यां दीर्घत्रियामायां द्यूतक्रीडा स्वमायया ।
इत्युक्त्वा पञ्च चिक्षेप पुनश्चित्रा बराटिकाः ।। ८७ ॥
ताभिः स्वकल्पनावाग्भिर्जितो यक्ष इति क्षणात् ।
प्राह हेमसहस्रं च निर्बन्धात्तमयाचत ॥ 8८ ॥
निरुत्तरं समालोक्य कूपे त्वां प्रक्षिपाम्यहम् ।
इत्युक्त्वा भयसंत्रस्तः सुवर्णं तमदापयत् ॥ ८९॥
ततः क्रमेण तेनैव ब्रासयन्सततं गिरः ।
प्रतिमागणवेतालानजयत्काञ्चनप्रदान् ।। ९० ॥
ततः कदाचिद्भगवान्महाकालस्तमब्रवीत् ।
पुत्र तुष्टोऽस्मि ते वीर व्रतेनानेन धीमताम् ॥ 9१ ॥
गच्छैतत्सरसस्तीर्थमत्र त्रिदशयोषितः ।
क्रीडन्ति स्नातुमायातास्ताभ्यः कन्यामवामुहि ॥ 9२ ॥
इति शर्वाज्ञया गत्वा दृष्टास्तास्त्रिदशाङ्गनाः ।
जहार तासां वासांसि तास्तस्मै तां सुतां ददुः ॥ 9३ ॥
कन्यां कलावतीं नाम प्राप्य तां स्वर्गसुन्दरीम् ।
ननन्द मदनोदारः स शंकरबरोर्जितः ॥ ९४ ॥
पुरा पुरंदरास्थाने सा चक्रे मानुषस्थितिम् ।
तेनाभवच्छक्रशापात्सुन्दरी मर्त्यसङ्गिनी ॥ ९५ ॥
कदाचिदथ सा स्वर्गनृत्ते कौतुकिनं प्रियम् ।
तं निनाय सनिर्बन्धं कृत्वा कर्णोत्पलालिताम् ॥ ९६ ॥