पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०. विषमशीले-टेण्टाकरालाख्यायिका
४१७
बृहत्कथामजरी

बहूपयासनिःस्पन्दः क्षिप्तः कूपे बलादहम् ।
नरकायासदुःखानामिव संजातमन्दिरे ।। ७२ ॥
तत्र दृष्टौ मया घोरविग्रहौ ब्रह्मराक्षसौ।
तावूचतुर्मामालोक्य मद्वृत्तान्तं निशम्य च ॥ ७३ ॥
आवाभ्यां वणिजः पूर्वं स्वमन्त्रेण प्रिय सुते ।
तुल्यं गृहीते निर्भुग्नमन्त्रौषधिबलक्रमे ।। ७४ ।।
ततो विषमशीलस्य दृशैव पृथिवीपतेः ।
पतिताबन्धकूपेऽस्मिन्नावां संत्यक्तकन्यकौ ।। ७5 ।।
संवत्सरोऽवधिस्तेन निर्दिष्टो नौ गतश्च सः ।
सप्ताहशेषस्तस्मात्त्वमस्मद्भोजनमानय ।
दत्ते सप्ताहमात्राभ्यां भोजने मोक्ष्यसे भयात् ॥ ७6 ॥
श्रुत्वेति प्रतिपन्नं मां क्षुद्विनाशो मुदान्वितम् ।
तस्मादुज्जह्रतुः कूपात्ततोऽहं त्वामुपस्थितः ।। ७७ ।।
त्वद्रूपत्बलेनैव ताभ्यां भोजनमीप्सितम् ।
दत्त्वाभ्येत्य प्रदास्यामि बलं रूपं च ते निजम् ॥ 7८ ॥
इत्युक्त्वा मद्बलाकारो गत्वा राक्षसयोर्ददौ ।
स्वयूथ्यानेव कितवान्सप्ताहं तूर्णभोजनम् ॥ ७९ ॥
तद्दत्वा स समभ्येत्य प्रादाद्रूपं बलं च मे ।
पुनश्च याचितताभ्यां भोजनं तर्जनक्रमैः ।
प्रतार्य मां कौतुकिनं नीत्वा कूपे ततोऽक्षिपत् !! ८० ॥
राक्षसाभ्यामहं तत्र गृहीतो भुजपञ्जरे ।
अकार्षं सुचिरं युद्धं कम्पिताखिलभूतलम् ॥ ८१ ॥
ततोऽहं तो ददौ युद्धश्रमाद्विश्रान्तविग्रहः ।
कथयित्वा निजं वृत्तं स्थितो लज्जानतः क्षणम् ॥ ८२।।
अथाब्रवीत्स्मितमुखस्तत्रैको ब्रह्मराक्षसः ।
अहो नु द्यूतकारेण मायया वञ्चिता वयम् ॥ 8३ ॥