पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
काव्यमाला ।

अस्मिन्नवसरे सोऽपि वीरचर्याविनिर्गतः ।
विलोलकुण्डलः खड्गी राजा राजीवलोचनः ॥ 5९ ॥
उत्साह इव साकारः प्रत्यक्ष इव विक्रमः ।
गम्भीरमधुरोदारदृशा निर्वापयन्निव ॥ ६0 ॥
मां समाश्चास्य दलयंस्तमो दन्तांशुसंचयैः ।
आदिदेशाशु" तो वेतालं तद्विनिग्रहे ॥ 6१ ॥
स तेनाग्निशिखाख्येन वेतालेनाशुपट्टितः । .
खण्डकापालिकः प्राणांस्तत्याज व्याजबाधकः ।। ६२ ।।
राजधानीं गते राज्ञि भूतवेतालमण्डली ।
खण्डकापालिकं भोक्तुमावयौ हठनिर्भया ।। ६३ ।।
ततो यमशिखो नाम वेताली नेतुमुद्ययौ ।
तत्सर्वं तत्प्रकोपाच्च तारमग्निशिखोऽवदत् ॥ ६४ ।।
मा मा त्वमेक एवैनं नय दुर्नयभाजनम् ।
विक्रमादित्यपादाब्जैः शापितोऽसि मया सखे ॥ 6५ ॥
श्रुत्वेति स्थगितः सोऽथ प्रभावं पृथिवीपतेः
पप्रच्छाग्निशिखं तस्य कौतुकाकुलिताशयः ॥ 6६ ॥
सोऽवदड्डाकिनीकाख्यो निशीथे द्यूतकृत्पुरा ।
विक्रीणानो महामांसं स्मशानमिममागतः ।। ६७ ।।
तन्मह्यमर्थानसो(?)थ ददौ निष्कम्पमानसः
रूपं बलं च सप्ताहं गृहीत्वा मम संविदा ॥ 6८ ॥
तत्कारणं मया पृष्टः सोऽवदत्कितवाग्रणीः ।
अस्म्यहं विजितो धूर्तेैर्धूसराङ्गो दिगम्बरः ॥ 6९ ॥
देहीति वादिना मध्ये वेद्यो द्यूतकृतामहम् ।
शिलीभूतः स्थितो. मूको योगीवानिमिषेक्षणः ॥ ७० ॥
उल्लुण्ठितश्मश्रुकेशस्तैर्लतामिः समाहतः ।
लवणेनाम्बुना सिक्तस्तैर्मित्रैः पूर्वसेवितैः ॥ ७1 ॥