पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. विषमशीले-टेण्टाकरालाल्यायिका ]
४१५
बृहत्कथामञ्जरी ।

मां दृष्ट्वा मन्त्रसिद्धोऽपि स निश्चेष्ट इवाभवत् ।
वृद्धोऽप्यत्यन्तवृद्धेन मन्मथेन विनिजितः ॥ ४६ ।।
तथा विषविपाकेशु विषयेष्वथ चेतसः ।
अपथ्येष्वातुरस्येव नाभिलाषः प्रशाम्यति ।। १७ ।।
ततो मयि प्रयातायां भर्त्रा सह निजां पुरीम् ।
खण्डकापालिकश्चक्रे मदर्थं मन्त्रसाधनम् ॥ ४ ॥
तस्याप्रतिहतैर्मन्त्रैरहं सत्रासकम्पिता।
कृष्यमाणा भुजङ्गीव भतारं शरणं गता।। ४९ ॥
सोऽप्यशक्तः परित्रातुं मां विष्ण्णमुखाम्बुजाम् ।
न्यवेदयत्कुबेराय कापालिकविचेष्टितन् ।॥ 50 ॥
ततोऽब्रवीदीद्वैश्रवणो नाहं तद्वारणे क्षमः ।
किमसाध्यं स्फुरद्धाम्नां मन्त्राणां वीर्यशालिनाम् ॥ 51॥
धनदेनापि संत्यक्तो मद्धर्ता शरणं ययौ ।
ब्रह्माणं सोऽपि तं प्राह दुर्जयोऽयं महाब्रवीत् ॥ 5२ ॥
किं तु श्रीविक्रमादित्यः समर्थस्तद्विनाशने ।
भयकाले भवद्भार्या तमाक्रन्दतु भूमिपम् ॥ ५३ ।।
इति प्रजापतिवचः श्रुत्वा प्राप्ते स्वमन्दिरम् ।
माणिभद्रे ततस्तेनः कृष्टाहं व्रतिना निशि ॥ ५४॥
मन्त्रशक्तिसमाहूता श्मशानं प्राप्य भीषणम् ।
खण्डकापालिक धोरमपश्यं कृतमण्डलम् ॥ 5५ ॥
प्रेतचक्रमहाकुण्डे क्षिपन्तं सर्षपाहुतीः ।
तं दृष्ट्वा ककुभः सर्वा ज्वालालोला व्यलोकयम् ।। 5६ ।
शफरी जालबद्धेव तत्राहं तद्भयाकुला ।
अभवं बान्धवस्यक्ता कम्पातङ्कतरङ्गिता ।।.5७ ।।
देव श्रीविक्रमादित्य राजन्विषमशील माम् ।
त्रायस्वाशरणां बालामिति भारं ततोऽभ्यधाम् ॥ 5८ ॥