पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
काव्यमाला ।

तंत्र दिव्यसरस्तीरे हरार्चनरता मया ।
दृष्टा वरवधूः कामा कन्या तरुणमञ्जरी ।। ३३ ।।
सागरासलिलोद्भूतं पूजयित्वा महेश्वरम् ।
दासीसहस्रानुगता सुन्दरी गन्तुमुधयौ ॥ ३४ ॥
तस्यां गतायां तद्दास्यः केयमित्यतिकौतुकात् ।
मया यौवनदर्पान्धाः पृष्टा नो किंचिदूचिरे ॥ 3५ ॥
अभीष्टदेवताद्रोहे मुहुस्ताः शापिता अपि ।
अवधीर्यैव सावज्ञाद्विशालाः प्रययुः शनैः ।। ३६ ॥
ततः श्रीविक्रमादित्यपादाब्जादथ शापिता ।
झटित्येवाप्तकस्पास्ता निवृत्ता गतिविभ्रमात् ॥ १७ ॥
अथ प्रह्नाः समभ्येत्य कीर्तितं त्वां प्रणम्य सा ।
हृष्टा वराङ्गना प्राह मां स्तनाग्रप्रकृताञ्जलिः ॥ ३८ ॥
......श्रीविक्रमादित्यो जयति त्रिजगज्जयी ।
यत्प्रसादादहं मुक्ता तस्मादपि महाभयात् ॥ ३९ ॥
श्रुत्वत्यहं तामपृच्छं कौतुकाविष्टमानसः ।
कथं मत्स्वामिना रक्षितासीति सादरम् ।।.४० ॥
साबदच्छृणु सर्वाशा योषा त्रिदशशाखिनाम् ।
यथा विषमशीलेन रक्षितासीति सादरम् ।। ४१ ।।
अस्ति वैश्रवणभ्राता माणिभद्र इति श्रुतः ।
तस्याहं वल्लमा भार्या यक्षी मदनमञ्जरी ॥ ४२ ॥
तेनाहं सह कान्तेन कदाचित्केलिलालिता।
रममाणा महीं भ्रान्त्वा विविधोद्यानमालिनी ॥ ४३ ॥
अथोज्जयिन्या पुःपु:(.) किलासोपस्ने बने ।
प्रियेणालिङ्गिता गाढं सुप्ताहं मदविह्वला ॥ 4४ ॥
अदूरवर्तिना स्वैरं तत्स्मशाननिवासिना।
खण्डकापालिकाख्येन दृष्टा कङ्कणमालिता ॥ ४५ ॥