पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०. विषमशीले-टेण्टाकरालाख्यायिका ।
४१३
बृहत्वश्रामझरी ।

स प्रणम्य महीपालं हेमसिंहासनस्थितम् ।
सुमेरुचूडामणितां प्रयातमिय भास्करम् ।। २० ।।
विजिज्ञपदीक्षमाणः कौतुकाद्वसुधाधिपम् ।
किंमयं वक्ष्यतीत्यन्तरुत्कण्ठाङ्कुरिताशयः ॥ २१ ॥
देव दक्षिणदिग्भूपैर्युप्मच्छासनमालिका।
किरीटकोटौ विक्षिप्ता लक्ष्मीरक्षामहौषधीः ॥ २२ ॥
क्रमेणाम्बुधिमुत्तीर्य यातोऽहं सिंहलेश्वरम् ।
वीरसेनं भवद्भक्तिशीलं कुलगृह श्रियः ॥ २३ ॥
स मां त्वच्छासनं मूर्ध्नि निधायोत्फुल्ललोचनः ।
प्राहान्ति मम सर्वस्वं कन्यारत्नमनुत्तमम् ॥ २४ ॥
विक्रमादित्यदेवश्च रत्नानां भाजनं विभुः ।
समर्पितेयं वचसा मया तस्मै सुमध्यमा ॥ २९ ॥
इत्युक्त्वा स सुतां राजा हरिणाक्षीमदर्शयत् ।
कान्तां विनयवत्वाख्यामुपाख्यानं रतिश्रियः ॥ २६ ।।
कन्यां नवसुधाधूतलावण्यवसुधां ततः ।
तामहं त्वत्समुचितां दृष्ट्वा जातोऽतिविस्मितः ।। २७ ।।
तद्विवाहाहितोद्योगः सिंहलाधिपतिस्ततः ।
भवते प्राहिणौद्दूतं मयि न्यस्तं महामतिः ॥ २८ ॥
दूतेन सहितः क्षिप्रमहमारुह्य वारिधौ !
वाहनं तीरनिकटे प्रागपश्यं द्विधागतम् ॥ 2९ ॥
दोर्भ्यां दैवात्समुत्तीर्य सागरं तटस्थितः ।
अपश्यं ललनां देव धनुषीं चितजन्मनः ॥ ३० ॥
हेमरत्नविचित्राङ्गा सारङ्गस्तत्पुरो मया ।
दृष्टश्चिरादविज्ञातो मारीचहरिणः पुनः ॥ ३१ ॥
ताभ्यां कतकरालम्बो नीतः कामप्यहं भुवम् ।
दूतेन संहितस्तेन दिव्योद्याने विभूषिता ।। ३२ ॥