पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
काव्यमाला ।

विधातुरानुकूल्येन प्राप्यन्ते हारिता अपि ।
वने धनसुहृद्वन्धुदयिताराजसंपदः ॥ ७ ॥
पुरा कैलासशिखरासीनः शीतांशुशेखरः ।
समभ्येत्य जितैर्देवैः शतक्रतुपुरोगमैः ॥ ८॥
पुरारिनिहितैर्देवदप्तैर्दितिजदस्युभिः ।
अवतीर्णैर्महाम्लेच्छैः स्वस्था देवास्तृणीकृताः ॥ ९ ॥
प्रमाणमत्र भगवानिति देवगिरा हरः ।
"भूरशान्त्यै प्रथमं माल्यवन्तं समादिशत् ॥ १० ॥
सोऽथ त्रिनयनादिष्टः पार्वतीवचसा क्षितौ ।
उज्जयिन्या नरपतेः श्रीमतः प्रापः पुत्रताम् ॥ ११ ॥
राज्ञो महेन्द्रादित्यस्य स्वप्ने शर्वेण सूचितः ।
सोऽभवद्विक्रमादित्यस्तनयो यशसा निधिः ॥ १२ ॥
नाम्नां विषमशीलोऽसौ द्वितीयेनापि विश्रुतः ।
सर्वशास्त्रास्त्रविद्यानां लेभे भाजनतां विभुः ॥ १३ ॥
तस्मै महीपतिर्दत्वा श्रियं भूपतिविश्रुताम् ।
ययौ वाराणसीं धीमान्कृतकृत्यः स्त्रिया सह ॥ १४ ॥
राजा विषमशीलोऽथ जनके प्रशमं श्रिते।
शशास. वसुधां धन्वी म्लेच्छोच्छादनदीक्षितः ॥ १५ ॥
कुलक्रमागतस्तस्य बभूव विपुलाशयः ।
रुद्रायुधः प्रतीहारः सचिवश्च महामतिः ॥ १६ ॥
स कदाचिद्दजवटामौलिलालितशासनः ।
समानीतः समभ्येत्य विज्ञप्तो मन्त्रिणा पुरः ॥ १७ ॥
योऽसावनङ्गदेवाख्यो विधो दक्षिणापथम् ।
देवेन सोऽयमायातः स्वामिनं द्रष्टुमिच्छति ॥ १८ ॥
इत्युक्त्वा नृपतेराज्ञां प्राप्य रूपमवेशयत् ।
सद्वितीयं ततो दूतं हर्षविस्फारिलोचनम् ॥ १९ ॥