पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७. विषमशीले-टेण्टाकरालाख्यायिका
४११
बृहत्कथामञ्जरी ।

तमामध्य प्रयातेषु पूजितेषु नृपेष्यथ ।
श्रीमानमरदत्तोऽपि संक्रामन्यात्मजे श्रियम् ॥ ११३ ॥
देव्या सह ययौ शंभोः प्रियां वाराणसीं पुरीम् ।
वैराग्यलक्ष्मीपर्यन्ते महतामेव जायते ॥ ११४ ।।
मृगाङ्कदत्तो निखिलां वीरो जित्वा वसुंधराम् ।
प्रियाविलासरसिकः सार्वभौमोऽभवन्नृपः ॥ १.१५ ।।
सा शशाङ्कवती श्यामा स्फुरत्तरलतारका ।
तस्य राजचकोरस्य बभूवानन्दनिर्भरा ।। ११६ ॥
एवं मृगाङ्कदत्तेन प्राप्ता त्रैलोक्यसुन्दरी ।
त्वमपि प्राप्स्यसि क्षिप्तं रम्या मदनमञ्चुकार ।। ११७.
इति निशम्य पिशङ्गजटोदितां विपुलकौतुकहर्षमयीं कथाम् ।
प्रियतमापरिरम्भमनोरथे हृदि बबन्ध धृतिं नरवाहनः ॥ ११८ ॥
इति शशाङ्कवतीविवाहः ।। ३६ ॥
इति श्रीक्षेमेन्द्र विरचितायां बृहत्कथायां शशाङ्कवतीलम्बको नाम नवमः समाप्तः ।



विषमशीललम्बका


प्रथमो गुच्छः।


गौर्या द्युतजिता नीता कर्णे केतकिपञ्चताम् ।
शांभवी वः शशिकला भूयादानन्दसंपदे ॥ १ ॥
ततः श्रिया वियोगाग्निसंतापिततनुर्वते ।
भ्राम्यन्कण्वमुनेः प्रायादाश्रमं नरवाहनः ॥ २ ॥
मनःप्रसादजनने प्रशान्ताशेषविप्लवे !
विवेक इव संतोषफले तस्मिंस्तपोवने ॥3॥
प्रणम्य तेजसां राशिं सहस्रांशुमिवापरम् ।
कण्वं दिव्यदृशा तेन तस्य चोपासितः क्षणम् ॥ ४ ॥
तं मुनीन्द्रस्ततः प्राह द्रुहिणस्पर्धया पुनः ।।
कुर्वन्विमानं हंसालीमिव दन्तांशुसंचयैः ॥ ५ ॥
राजसूनों श्रय धृतिं वल्लभां तामवाप्स्यसि ।
संयोगान्ता भवन्त्येव वियोगाः पुण्यकर्मणाम् ॥ ६ ॥