पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१०
काव्यमाला ।

स निगृह्य महामात्यं त्यक्त्वा राज्यसुखश्रियम् ।
नन्दिग्रामे स्थिति चक्रे पुत्रसंदर्शनाशया ॥ १०0 ॥
सोऽथ कालेन विज्ञाय सूनोः सुहृदमागतम् ।
पप्रच्छ हृष्टस्तद्वृत्तं सर्वं भीमपराक्रमम् ॥ १०१ ॥
धीमानमरदत्तेन राज्ञा पृष्ठो जगाद सः ।
मृगाङ्कदत्तचरितं संसारे विपुलाद्भुतम् ॥ १० ॥
तदाकर्ण्य सहामात्यः स पुनः प्राच्य जीवितम्
राजा द्रष्टुं ययौ पुत्रं गजवाजिरथाकुलः ॥ १०३ ॥
मायाबटुपुरं प्राप्य संप्राप्तविजयं सुतम् ।
शशाङ्कवत्या सहितं दृष्ट्वाश्चर्यमयोऽभवत् ॥ १०4 ॥
मृगाङ्गदत्तो जनकं प्रणम्य सह राजभिः ।
स्थित्वा तत्रोत्सवव्यग्रः कंचित्कालं प्रियासखः ।। १०५॥
अयोध्या प्रययौ हृष्टो विजयी सचिवैः सह ।
पुरा कपीन्द्रसहितः सीतां प्राप्येव राघवः ॥ १०६॥
राजधानीं प्रविश्याथ पूजयन्निखिलान्नृपान् ।
प्रणम्य मान्यान्विदुषो भेजे स विपुलोत्सवम् ॥ १०७ ॥
तैरेकादशभिर्मित्रैः श्रुतधिप्रमुखैर्बभौ ।
दिवाकर इव श्रीमान्द्वादशात्मा नृपात्मजः ॥ १०८ ॥
ततः कन्दर्पसेनेन विसृष्टस्तनयः स्वयम् ।
सुखेणान्याययौ कर्तुं स्वसुः परिणयोत्सवम् ॥ १०९ ।।
सुवर्णरत्नशकटैर्गजेन्द्ररथवाजिभिः ।
स- राजपुत्रो विदधे विपुलारम्भमुत्सवम् ॥ ११.० ।।
निवर्तितविवाहेऽस्य गौर्येच शशिशेखरः ।
शशाङ्कवत्या विहितो मृगाङ्कः पूर्णमङ्गलः ॥ १११ ॥
ततो महोत्सवोत्साहसुभगां सोऽभजस्थितिम् ।
वल्लभानवसंभोगसंभावितमनोभवः ॥ १.१२ ॥