पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाशयत्याम्-शशाङ्कनतीविवाहः ] :
४०७
बृहत्कथामारी ।

ततो विजित्य समरे कलिङ्गनृपतिं विभुः ।
राजा श्रीविक्रमादित्यः स्त्री पाप."श्रियम् ॥ ६२ ॥
इति कलिङ्गसेनालामवर्णनम् ॥ ११ ॥
इत्थं देवी प्रणयिना लब्ध्वा त्वं जगतीभुजा !
तं पूर्वसाधितं प्राह स्वैरं विक्रमकेसरी ॥ १३ ॥]
कन्दपसेनतनयां गुहान्तःपुरसुन्दरीम् ।
सखे मृगाङ्कदत्ताय खेचर क्षिप्रमानय ॥ ३४ ॥
श्रुत्वेत्युवाच बेतालो महाकालाभिपालिते।
देशे न प्रभवामोऽस्मिन्वयं तद्वरदुर्जये ॥ १५ ॥
इति वादिनि वेताले तद्विसृष्टे तिरोहिते ।
मृगाङ्कदत्तः सचिवैः प्राप्तकालमचिन्तयत् ॥ १६ ॥
खयं ततो महामात्यो गत्वा विन्ध्यनिवासिनः ।
दूर दुर्गपिशाचस्य मातङ्गाधिपतेः पुरम् ॥ ६७ ॥
संगम्य मायाबटुना विधाय बलसंग्रहम् ।
लतः किरातमानाय्य सुहृदं शक्तिरक्षितम् ॥ 6८ ॥
दशयोजनविस्तारक्रटकं बन्धुबन्धुरः ।
पूर्वं ययाचे दूतेन सुतामुज्जयिनीपतिम् ।। ६९ ॥
तं सामविमुखं ज्ञात्वा दृप्तं समरसंमुखम् ।
जेतुं राजसुतः सैन्यैः प्रतस्थे सागरोपमैः ॥ ७० ॥
अवाप्याचन्तिविषयं विष्टभ्योज्जयिनी ततः।
मृगाङ्कदत्तः शुशुभे लङ्कामिव रघूद्वहः ॥ ७१ ॥
कोपाकन्दर्पसेनेऽथ निर्गते युद्धदुर्मदे ।
ररास भूमिपालानां समरारम्भदुन्दुभिः ।। ७२ ॥
करालकरवालोर्मिभीषणे रणसागरे ।
सावेगं शूरमकरा वाहिन्यां विविशुर्मिथः ॥ ७३ ॥
ततो वीरशिरःपद्मैराकीर्णाभूद्वसुंधरा
सरसीवास्तकल्लोला गजक्रीडानिपातिताः ।। ७४ ॥