पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
काव्यमाला ।

अत्रान्तरे रूपवती सदा वृद्धद्विजालये ।
कुरूपं वीक्ष्यः तत्पुत्रं पितुरेवाथयौ गृहम् ॥ ४९ ॥
कालेन तत्र विरहक्षामौ देवावथागतौ ।
कन्दर्पकेसटौ दृष्ट्वा सुधार्दैवाभवज्झषात् ॥ ५० ॥
प्रत्यभिज्ञाय तां कान्तां केसटः प्राप्य सुन्दरीम् ।
तस्थावाश्वासयंस्तत्र कन्दर्पं विरहातुरम् ॥ 5१ ॥
रूपवत्या स ते सख्याः परिणीयैव केसटः ।
लेखहारकसंदेशाज्ज्ञात्वा रत्नपुरे स्थिताम् ।। 5२ ।।
सुमानसां विरहिणीं तां कन्दर्पपितुर्गृहे ।
तूर्णं तत्सहितः प्रायास्केसटो वल्लभासखः ॥ 53॥
कन्दर्पः स्वगृहं प्राप्य समासाद्य सुमानसास् ।
तां चानङ्गवतीं कान्तां विललास सुहृद्वर(/) | 5४ ||
प्रियाविरहितो गत्वा ताम्रलिप्तां च केसटः ।
विजहार स्वभवने संस्मरन्विरहानलम् ॥ 55 ॥
इति केसटाख्यायिका ॥ ३०
इति केसटकन्दर्पौ प्रापतुर्वल्लभौ पुरा
वणिक्पुत्रत्वमप्येवं ध्रुवं जायामवाप्स्यसि ।। ५६ ॥
मयापि स्ववधूः पूर्वं प्रयाता पञ्चतामपि ।
कपोलिकेन मायेन हिंसिता मन्त्रशक्तितः ॥ 5७ ॥
हत्वा काम्पिलकं दूरात्सजीवा""पुरा हृता ।
जीवतां संगमो नाम मन्येऽहं किल जायते ॥ 5८ ॥
इत्यम्यागतविप्रेण सुचिरं परिसान्त्वितः ।
भ्रान्त्वा मही महीपाल त्वामहं शरणं गतः ॥ ५९ ॥
राजा विषमशीलस्तन्निशस्य वणिजो वचः।
मलेन दत्तां तां कान्तामदात्तस्मै सुतामिव ॥ 6० ॥
तस्मिन्भार्यां समादाय याते वणिजि भूपतिः
कलिङ्गसेनासंप्राप्त्यै कलिङ्गेशं समभ्ययात् ॥ ६1॥