पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्याम् केसट्राख्यायिका ।]
४०५
बृहत्कथामारी

किंतूचितविधानेन त्वयोद्वाहमहं भजे ।
आनयोत्सवसामग्रीं त्वं विकि""ङ्गुलीयकम् ॥ ३6 ॥
इति श्रुत्वा गते तस्मिंस्ततः कमललोचना ।
विवेश त्रासात्स्वधिया मालाकारनिवेशनम् ॥ ३७ ।।
सोऽपि प्रतिनिवृत्तोऽथ तामदृष्टा विषण्णधिः ।
कुसुमायुधमभ्येत्य सानायातेत्यभाषत ॥ 3८ ॥
ततो विरहसंतप्तो दुःखितः कुसुमायुधः ।
बभ्राम विपुलोच्छ्वासो विवशेनेव वक्षितः(१) ॥ ३९ ॥
ततः कदाचिदुद्याने मालाकारगृहान्तिके ।
तां कान्तां प्रत्यभिज्ञाय कृतोद्वाहो मुदं ययौ ॥ ४०॥
स तां रतिमिव प्राप्य प्रहृष्टः कुसुमायुधः ।
नवसंभोगसाम्राज्यं भेजे लीलावतीसखः !! ४१ ॥
इति कुसुमायुधाख्यायिका ॥ २९ ॥
त्वमप्येवं रूपवतीमवाप्स्यसि सखीप्रियाम् ।
यज्ञस्वामी निगद्येति सान्त्वयामास केसटम् ॥ ४२ ॥
ततः सुमानसा तौ च दैवात्कन्दर्पकेसटौ।
स्वपुरं प्रस्थिता गन्तुं गजेन्द्रं ददृशुः पथि ॥ 4३ ॥
तद्भयाद्विप्रयोगोऽभून्मिथस्तेषां तदा वने ।
अत्यन्तसुखलेखो हि बहुदुःखो भवाम्बुधिः ।। 4४ ॥
केसटोऽप्यथ संप्राप्य शोचयन्वारणीं (1) शनैः ।
कन्दर्प प्राप्य कालेन विरहक्षामविग्रहम् ॥ 45 ॥
सुमानसाभिर्देवीमिः कन्दर्पः कृपया वनान् ।
"न्यरत्नपुरे ताभिर्भर्तुः कुलगृहे सतीम् ।। ४६ ॥
रत्ना""नगवीं नाम ज्येष्ठां कन्दर्पवल्लभाम् ।
तद्वियोगानलाक्रान्तां वह्निपाते समुद्यताम् ॥ 47॥
सुमानसा निजकथां कथयित्वा प्रियो मतः ।
ध्रुवं समेष्यतीत्युक्त्वा तां संपत्निमवारयत् ॥ १८ ॥