पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
काव्यमाला ।

इति पृष्टाबद्धाला कन्दर्पं सा विलज्जिता ॥ २२ ॥
अयि त्वयि हृते नाथ तदा तैः खेचरैर्गणैः ।
इयं विरहदुःखार्ता निमग्ना वाहिनीजले ॥ २३ ॥
निगीर्णा तेन मत्स्येन ततः केनाद्य मोचिता।
कथं वेत्ति न जानेऽहं प्रमाणमधुना भवान् ॥ २४ ॥
इति श्रुत्वेव सोत्कण्ठां कण्ठे जग्राह तां प्रियाम् ।
कन्दर्प इव कन्दर्पो विललास रतिं"..... ॥ २५॥
सुमानसायास्तद्देशनिवासी मातुलो द्विजः ।
यक्षस्वामी निनायाशु हृष्टस्ता स्वगृहं ततः ॥ २६ ॥
दयितासंगतं दृष्ट्वा कन्दर्प तत्र केसटः।
विश्वस्थ तां रूपवतीं ससार विरहातुरः ।। २७ ॥
यज्ञस्वामी तमालोक्य वियोगं त्वङ्गतापितम् ।
उवाच मा कृथाः शोकमचिरात्प्राप्स्यसि प्रियाम् ॥ २८ ॥
अभूच्चण्डपुरे विप्रः सोमस्वामीति विश्रुतम् ।
बभूव तनया तस्य दक्षा कमललोचना ॥ २९ ॥
दृष्टिर्बद्धानुरागैव सा सौन्दर्यविशेषकम् ।
कुसुमायुधनामानं द्विजपुत्रमचिन्तयत् ॥ ३० ॥
सा तं सखीमुखेनाह माद्यैव निशासुखे
तयान्यथाह तातेन वितीर्णा "तद्वशा ।। ३१ ।।
इत्यर्थितस्तया हृष्टो मित्रमश्वतरीसुतम् ।
स विसृज्य ""हाराशु गूढा कमललोचनाम् ॥ ३२ ॥
अविनीताभिधानोऽय नीत्वा तां स्तबकस्तनीम् ।
मित्रद्रोहोद्यतः प्राह तो मन्मथशराहताम् ॥ ३३
भज मामनवद्याङ्गि विक्लीबं कुसुमायुधम् ।
महाहुबलमाश्रित्य स सर्वत्र प्रगल्भते ॥ ३४ ॥
इति सा सहसैवोक्ता तेन"
अच्छाद्य नाह को दोषस्त्वं ममाभ्यधिक प्रियः ॥ ३५ ॥