पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शावत्याम् कुसुमायुधाख्यायिका ।
४०३
बृहत्कथामञ्जरी ।

इति ध्यात्वा नृपसुतः स्मरशोकाकुलोऽभवत् ।
ततः संस्मार वेतालं तत्र विक्रमकेसरी ॥ १० ॥
उपस्थितः स वै ध्यातः किं करोमीत्यभाषत
कथयामास च पुनः कथामाश्चर्यशालिनीम् ॥ ११ ॥
सखे कन्दर्पनामाहं विप्रो रत्नपु"
प्रावृषेण्यधनश्यामे काले यातो महाटवीम् ॥ १२ ॥
तत्राथ मत्तिचक्रेण केलिशङ्केतमानिना ।
स प्रासादं विलोक्यैव नीतोऽहं व्योमगामिना ॥ १३ ॥
क्वचिद्विजालयोपान्ते मां विधाय गतास्तथा ।
देवीषु द्विजकन्यायास्तत्रोद्राहमहोत्सवे ॥ १४ ॥
लग्ने पूर्वांशके प्राप्ते वरे देवाङ्गनागते ।
सह्यो विभूषणजुषे मह्यं कन्यां ददुर्द्विजाः ॥ १५ ॥
अहं स मानसां नाम तामवापं मनोभुवः ।
हरनेत्रामिदग्धस्य निर्वाएणनदीमिव ।। १६ ।।
तया प्रणयशालिन्या यावत्प्राप्तोऽसि निर्वृतिम् ।
समेत्य मतिचक्रेण नीतस्तावद्विहायसा ॥ १७ ॥
द्वितीय देवता चक्रे व्योमप्राप्तेऽथ तत्पुरः !
संप्रवृत्ते च तद्युद्धे पतितोऽहं त्वदन्तिकात् ॥ १८ ॥
न जाने चन्द्रवदना सा क्वास्ते का च भूरियम्
अत्युक्ता(?) बाष्पसंपूर्णलोचनस्तं मुहुर्मुहुः ।
समाश्वास्य ययौ प्रातस्तेनैव सहितः शनैः ॥ १९ ॥
ततो दूरतरं गत्वा मीनान्ददृशतुर्जनैः ।
विनिकृतान्महाकायान्निर्गतान्तौ वराङ्गनाम् ॥ २० ॥
संत्रासविह्वलां बालां तां दृष्ट्वा हरिणेक्षणाम् ।
प्रत्यभिज्ञाय कन्दर्पः पप्रच्छाशु सुमानसाम् ॥ २१॥
किमिदं चन्द्रवदने स्वप्नतुल्यं विचेष्टितम् ।


कोष्टान्तर्गतस्थः पाठः का-पुस्तके त्रुटितः,