पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
काव्यमाला ।

इत्येवमद्भुता धातुर्विलासकुटिलां गतिः
युष्माकमपि संकल्पः फलिष्यति न संशयः ॥ १४३४ ॥
इति कण्वेन मुनिना कृपयैवोपवर्णिताम् ।
कथामेतां समाकर्ण्य धैर्यं वयमुपागताः ॥ १४३5 ॥
इति मन्दारवत्याख्यायिका ॥ १८ ॥



तृतीयो गुच्छः


ततो मुनीन्द्रमामन्त्र्य विलङ्घय विकटाटवीन् ।
बहूपवाससंतप्ताः प्राप्ता वयमिमा भुवम् ॥ १ ॥
इहाप्यस्य तरोर्भुक्त्वा फलानि फलतां गताः ।
मुक्तास्त्वद्दर्शनात्सर्वे पश्यामस्त्वामनामयम् ॥ २ ॥
व्याघ्रसेनेन कथितां कथां श्रुत्वेति विस्मितः ।
मुगाङ्कदत्तः प्रययौं नत्वा हेरम्बपादपम् ॥ ३ ॥
विन्ध्याटवीमतिक्रम्य श्रुतधिप्रमुखैः सह ।
विन्ध्यशैलं परित्यज्य तथा गन्धवतीं नदीम् ॥ ४ ॥
करवीरं समासाद्य भूतवेतालसंकुलम् ।
महाकालं प्रणम्याशु ददर्शोज्जयिनीं निशि ॥ 5 ॥
पूर्णेन्दुविहितालोकैस्ता पुरीं वीक्ष्य दुर्गमाम् ।
दुर्गयायुधोपेतां सुभटैः परिपालिताम् ॥ ६ ॥
संकल्पैरप्यनाधृष्यामलङ्घयां मारुतैरपि ।
अचिन्तयत्स सचिवैस्ता शशाङ्कवतीं स्मरन् ॥ ७ ॥
राजा कन्दर्पसेनोऽयं रक्तामात्यो महाधनः ।
इयं पुरी च दुर्भद्या नात्रोपायः प्रगल्भते ॥ ८ ॥
अयं मे विपुलः क्लेशः प्रायो निष्फलतां गतः ।
अधन्यैः प्राप्यते नाम सा शशाङ्कवती कथम् ॥ ९ ॥


१. श्रुत्वा कथा संगामाशामाश्रितास्ते शनवयम् ख. २, "वा मनोगताम ख.