पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शासवत्सास-मन्दारवत्याख्यायिका ]।
४०१
बृहत्कथामञ्जरी

इति निश्चितसंकल्यो बद्धोऽहं भवता वने ।
प्राप्नुवन्ति कथं नाम परद्रोहरताः सुखम् ॥ १४2२ ॥
पुलिन्दराजः श्रुत्वेति हन्यतामेष दुर्मतिः ।
इत्यादिदेश सेनान्यं भृकुटीभीमविक्रमः ।। १४२३ ॥
राजपुत्रन्ततः प्राह धनमेवास्य गृक्षताम् ।
वणिजां द्रविणं प्राणः शरीरं तृणमेव यत् ॥ १४२४ ॥
इति सुन्दरसेनेन रक्षितः करुणाब्धिना।
निरम्बरो वणिकप्राचात्कृतकोलाहलः श्वभिः !! १४25 ॥
ततो दिदेश संदेशं विन्ध्यकेतुर्महीभुजे ।
महासेनाय तनयप्राप्तिपीयूषनिर्भरम् ॥ १४२६ ।।
शबराधिपलेख्येन निषधाधिपतिस्ततः ।
विज्ञाय सुतवृत्तान्तं तदने सानुगो ययौ ।। १४२७ ॥
हंसद्वीपाधिनाथेन सहामात्यस्तैस्तथा ।
स चक्रे कुञ्जरानीकैर्व्रजन्भुवि धनागमम् ॥ १४२८ ।।
ततः सुन्दरसेनोऽपि सानुगो दवितासखः ।
समेत्य दृष्ट्वा पितरं ववन्दे साश्रुलोचनः ॥ १४2९ ।।
ततः प्रविश्य ते सर्वे पुरीं कोलाहलाकुलाम् ।
अलकां हर्षसंपूर्णामिव चक्षुर्महोत्सवम् ॥ १५३.० ॥
अथोचिता विवाहश्रीर्मुहूर्ते शुभलक्षणे ।
मन्दारवत्या राजेन्द्रसूनोः क्षिप्रमवर्ततः ॥ १४३१ ।।
चिरं महोत्सबे तस्मिन्नानन्दामृतनिर्भरः ।
हंसद्वीपपतिः पुत्रीं परिष्वज्य पुनः पुनः ।
स्वपुरीं प्रथयौ हृष्टः सानुगो वल्लभासखः ॥ १४३२ ।।
इति सुन्दरसेनेन प्राप्तास्ते सुहृदश्चिरात् ।
प्रिया च सा सुवदना नेत्रामृततरङ्गिणी ॥ १४3३ ॥


'धूम्रविभ्रमः ख. २. 'वाक्येन स.