पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
काव्यमाला ।

इत्यादि पार्वती स्तुत्वा स्थिते तस्मिन्नसंभ्रमे ।
हन्तुं पुलिन्दराजस्तान्विन्ध्यकेतुः समाययौ ॥ १४०९ ॥
निर्विकार तमालक्ष्य स तन्न निधनक्षणे ।
हा धिङ् नः स्वामितनुभूरयमित्याह संभ्रमात् ।। १४१० ॥
अहमाटविको राजा महासेनेन भूभुजा।
कृतः सुन्दरसेनोऽयं पुत्रस्तस्योर्जिताशयः ॥ 1411 ॥
इत्युक्त्वा पादयोः सास्रं राजसूनोर्निपत्य सः ।
तैः सुहृद्भिः परिवृतं तं निनाय निजालयम् ॥ १४१२ ॥
तत्र विज्ञातवृत्तेन तेन प्रणयशालिना ।
पूज्यमानः स्मरन्कान्तां कंचित्कालमुवास सः ॥ १४१३ ॥
ततः कदाचिदासीनं शबरेन्द्रं तदन्तिके ।
व्यजिज्ञपत्समभ्येत्य सेनानीर्विहिताञ्जलिः ॥ १४ १४ ॥
देवादेशान्निरुद्धोऽसौ सार्थो बहुधनो वने ।
संयम्य समरे जित्वा समानीतश्च तत्पतिः ।। १४१५ ॥
पश्चास्थिता तस्य कन्या हरिणीहारिलोचना ।
शङ्के शशाङ्को यत्कान्त्या क्षीणः क्षीणोऽपि पूर्षते ॥ १४१६ ।।
श्रुत्वेति भिल्लराजेन राजपुत्रमतेन सः ।
दर्शयेति समादिष्टः सेनानीरानिनाय तम् ॥ १४१७ ॥
तस्यानुगां ततो दृष्ट्वा तां सौन्दर्यसुधानदीम् ।
राजपुत्रः परिज्ञाय मुमोह विरहातुरः ॥ १.४१८॥
मन्दारवत्यपि पुरो विलोक्य हृदयप्रियम् ।
सहसा शोकहर्षाभ्यां निष्पन्देवाभवत्क्षणात् ॥ १४१९ ॥
ततः पुलिन्दराजेन स पृष्टो दुष्टचेष्टितः ।
वणिक्प्रोवाच पापेन पर्याप्तं सदृशं फलम् ॥ १४२० ॥
वञ्चितो राजपुत्रोऽयं हृतेयं राजकन्यका ।
स्ववेश्मनि विधास्यामि विवाहं विभवोचितम् ॥ १४2१ ॥