पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम-मन्दारपत्याख्यायिका ।।
३९९
बृहत्कथामकरी ।

तत्र सुन्दरसेनोऽभूत्कौमुदीधवलत्त्विषि ।
कटाह इव विन्यस्तः शौचन्हरिणलोचनाम् ॥ १३९६ ॥
ज्योल्लाहासधवलो वेताल इव चन्द्रमाः ।
प्राणान्समुद्यतो हन्तुं ममेत्युक्त्वा पपात सः ॥ १३९७ ।।
तं मूर्छितं निपतितं दृष्ट्वा साश्रुविलोचनः ।
बिललापातिकरुणं तद्वयस्योऽपि बिलः । १३९८ ।।
ततः प्रभाते शनः संज्ञामासाद्य दुःखितः ।
राजपुत्रोऽविशद्धोरामटवीं बिस्खलद्वतिः ॥ १३९९ ॥
ददर्श तत्र चमरीवालैराच्छादितां पुरः ।
पुलिन्दपल्लीं शार्दूलकृत्तिप्रालम्बिभीषणाम् ॥ १४०० ॥
गजेन्द्रमांसकूटेषु काकरक्षाविराविभिः ।
विकृतैर्बुद्धशवरैः पिशाचैरिव सेविताम् ।। १४०१ ।।
लम्बमानोरुतूणीरां संसक्तमृगवागुराम् ।
सारमेयकृतारावां तां पश्यन्प्रययौ द्रुतम् ।। १४०२ ॥
तत्र दुर्गोपहाराय शबरैश्चापपाणिभिः ।
निहतानेकशबरी बद्धो राजसुतस्ततः ।। १४.०३ ॥
वयस्यसहितो नीतः स तैः कारागृहोदरम् ।
प्रविश्य सुचिरं वृद्धान्सचिवान्सान्ददर्श च ॥ १४०४ ॥
तांचण्डप्रमुखान्दृष्ट्वा निबद्धान्निगडै द्वैः ।
उवाच संगता दिष्टा वयमस्मिन्वधक्षणे ।। १४०९ ॥
इति ब्रुवाणं शबरा निन्युस्तं चण्डिकालयम् ।
सहापरस्तैः सचिवैः सायकत्रणपीडितम् ॥ १४०६ ।।
तत्र कात्यायिनी दृष्ट्वा स प्रणम्य निराकुलः ।
तुष्टाव विरहात्क्षामः पदैरस्खलिताक्षरैः ।। १.४२७ ॥
जय देवि नमश्चन्द्रचूडाचूडाशशित्विषा !
संपूर्यमाणपादाम्बुप्रवृद्धनखचन्द्रिक ॥ १४०८ ॥