पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८
काव्यमाला ।

वणिक्सोऽपि विलोक्यैव दूरात्तां हंसगामिनीम् ।
आरुह्यतां प्रवहणं प्रोवाचेति नृपात्मजः ॥ १३८३ ॥
तदाकर्ण्य प्रियां पूर्वमारोप्य स समीहते ।
यावत्वयं समारोढुं वणिक्तावज्जहार ताम् ॥ १३८४ ॥
क्रोशन्तीं तां समादाय याते तस्मिन्नदृश्यताम् ।
मून्धिकारितः क्षिप्रं निपपात नृपात्मजः ॥ १३८५ ॥
हा प्रिये व नु यातासि वद् दृष्टासि पश्य माम् ।
इत्युन्मत्त इवानकं विललाप मुहुर्मुहुः ॥ १३८६ ॥
भृङ्गावलीषु कबरीमुत्पलेषु विलोकितम् ।
लीलां च बालवल्लीषु स शुशोच मृगीदृशः ॥ १३८७ ।।
तन्व्या संभाषितोऽस्मीति स वदन्बालवल्लरीम् ।
मञ्जुसिञ्जानमधुपामालिलिजानिलाकुलाम् ॥ १३८८ ॥
कान्ताकटाक्षमालेयमिति बर्हिशिखावलीम् ।
मोहाद्वाल इवाधावबालेन्दुफलकाम्यया ॥ १३८९ ।।
तसिन्धियावियोगाग्निदह्यमाने दिनेश्वरः ।
चिन्नमस्ताद्विमारुह्य ममज्ज जलधेर्जले ॥ १३९० ॥
अथाभूत्सांध्यरागेण मञ्जिष्टपटशोभिना ।
चक्राह्वशोकशिखिना मूर्तेनेवावृतं जगत् ॥ १३९१ ।।
ततः सुन्दरसेनोऽयदुःखानिलसमुच्छ्रितः ।
सान्द्रधूमैरिव ध्वान्तैर्बभूव पिहिता दिशः ॥ १३९२ ।।
ततश्चन्द्रोदयारम्भपाण्डुरा रजनी बसौ ।
वियोगिनीव संसिक्ता कर्पूरहरिचन्दनैः ॥ १३९३ ॥
अथादृश्यतः शीतांशु¥तनोदयलोहितः ।
दह्यमानः स संतापैः प्रोषितावीक्षितैरिव ॥ १३९४ ।।
व्योमलक्ष्मीः शशिकरैः करिणीदन्तपाण्डुरैः ।
बभूव सरतप्तेव मण्डिता विषमण्डलः ॥ १३९५ ।।