पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्यार-मन्दारवत्याख्यायिका ।।
३९७
बृहत्कथामखरी ।

सखीमिज्यिमानाथ शा बाला कदलीदले.
लब्धसंज्ञा नृपसुतं पुरो दृष्ट्वा व्यचिन्तयत् ॥ १३७० ॥
अहो बत स एवायं यश्चित्रस्थो मया पुरा ।
पृष्टः सैवेयमम्लाना रेखा सौन्दर्यशालिनी ॥ १३७१ ॥
इति लज्जाकुले तस्याः कान्तिदर्शनसंशये।
लेभे मनोभवः क्षिप्र दोलारोहणविभ्रमम् ।। १३७२ ।।
ततः सुन्दरसेनस्तां पप्रच्छ मुनिकन्यकाम् ।
लावण्यललिताकारा कस्सेयमिति सादरम् ।। १३७३ ।।
इयं मन्दरदेवस्य हंसद्वीपपतेः सुता ।
ख्याता मन्दारवत्याख्या प्रस्थिता पितुराज्ञया । १३७४ ।।
वरं सुन्दरसेनाख्यं निषधाधीशितुः सुतम् ।
तरीतुं जलयानेन ततार जलधि ततः ॥ १३७६ ।।
भने प्रवहणे वातैर्दैवात्तटमधिश्रिता ।
न्यस्तेयं वीविहस्तेन भने प्रवहणेऽब्धिना ॥ १३७६ ॥
प्राप्ता मतङ्गमुनिना कन्येव प्रतिपालिता।
इति स श्रुतवृत्तान्तस्तस्थावानन्दसंप्लुतः ॥ १३७७ ॥
पृष्टो मन्दारवल्याथ तत्सखा प्राह तत्कथाम् ।
यथावृत्तं तदाकर्ण्य प्रपेदे निति पराम् ॥ १३७८.१]
इति श्रुत्वा परिज्ञाय मिथो वृत्तान्तविस्तरन् ।
दयिती जग्मतुर्मूछी तो बाष्पपिहितेक्षणौ ॥ १३७९ ।।
खयं ततः समभ्येत्य भगवाज्ञाततत्कथः ।
मतङ्गमुनिरानन्दाद्ददौ तां नृपसूनवे ।। १३८० ॥
अथ संप्राप्तदयितो राजपुत्रो मुनीश्वरम् ।
यमुनां च समामन्त्र्य प्रतस्थे सुहृदा सह ।। १३८१ ॥
किंचिन्मार्ग समुलकच ततः स जलधेस्तटे ।
आलुलोके प्रवहणं बणिजो वल्लभासखः ॥ १३८२ ।।