पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९६
काव्यमाला ।

प्रसन्नसुभगच्छायम गुञ्जविहङ्गमे ।
मृदुलानिललोलाप्रफुल्लवल्लीमनोहरे ॥ १३९७ ॥
तत्राश्रमोपान्तनदीतीरे तरललोचनाः ।
जलकेलिकलालोला ददर्श मुनिकन्यकाः ॥ १३६८ ॥
तासां मध्ये ततोऽपश्यत्ताराणामिव रोहिणी ।
शोककञ्चकसंवीतां कन्यां कुवलयेक्षणाम् ॥ १३६९
निर्दोषेणातिकान्तेन शतपत्रविकाशिना ।
अभिभूतेन्दुमिम्बेन वदनेन विराजिताम् ॥ १३६० ॥
निषिद्धमावयोरक्यं श्रोत्राभ्यां नासया तथा ।
रोषादतीव रक्तान्तं बिभ्राणां लोचनद्वयम् ॥ १३६१ ॥
नागवल्लीकिशलयैर्भूषितामधरांशुभिः ।
लक्ष्मीमिवाब्धिसंक्रान्तबालविद्रुमपल्लवाम् ॥ १३६२ ।।
अत्युच्चकुचसंरुद्धं न पश्याम्येतदाननम् ।
इतीक चिन्तया मध्यं दधती क्षामतां गतम् ॥ १३६३ ॥
फुल्लोत्पलवरामोदा कुन्ददन्तां हिमस्मिताम् ।
अशोकपल्लवकरां मल्लीमुकुलकोमलाम् ॥ १३६४।।
केतकीकलिकाकोटितीक्ष्णान्तनयनच्छटाम् ।
स तां विलोक्य साकारामिव सर्वतुदेवताम् ॥ १३६५ ॥
बभूव विस्मयोत्तालनयनः सुहृदा सह ।
अग्राम्यमधुरं तस्याः प्रशंसनेष विश्रमम् ॥ १३६६ ॥
साथ तत्र जलक्रीडाव्यग्रा माहेण हारिणी ।
गृहीता मोहमगमत्रासकम्पिपयोधरा ॥ १३६७ ॥
तां विलोक्य तदाक्रान्ता मुनिकन्याः प्रचुक्रुशुः ।
हा हा मन्दारवत्येषा सखी आहेण कृष्यते ॥ १३६.८ ॥
इति प्रियतमानामश्रवणोत्फुल्लकाननः ।
क्षिप्रं सुन्दरसेनस्तु हत्वा प्राई ररक्ष ताम् ।। १३६९ ॥


विविता ख.