पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम्-मन्दारवत्याख्यायिका।
३९५
बृहत्कथामञ्जरी।

हा सुन्दरि न लब्धासि यतैरेवंविधैरपि ।
कुतो वा हीनपुण्यानां संकल्पाः फलयोगिनः ।। १३४४ ॥
तैः सुहृद्भिर्वियुक्तस्य निष्फलोद्योगदुःखिनः ।
ममालिन्व्यसनापाते निधनानापरं सुखम् ।। १३४५ ॥
इति प्रलापमुखरः सुहृदावासितो मुहुः ।
तापसाभ्यां समादिष्टं शनैः प्राप तपोवनम् ॥ १३४६ ॥
अत्रान्तरे महासेनो विज्ञाय निषधेश्वरः ।
रहितं राजपुत्रेण प्रतीपं सैन्यमागतम् ॥ १३४७ ।।
श्रुत्वा समुद्रवृत्तान्तं घोरं कुलिशवारुणम् ।
हा पुत्रेति विलप्योनिपपात महीतले ।। १३४८ ॥
भूपतौ शोकपतित सरोदेच वसुंधरा ।
अन्तःपुरवधूच्छिन्नहारमुक्ताश्रुबिन्दुभिः ।। १३६९ ॥
देवी शशिप्रभा तत्र पुत्रशोकालापिनी ।
चक्रे केलिकुरङ्गीणां मुहुः साश्रुलवा दृशः ॥ १३५०
असिन्नवसरे ज्ञात्वा हंसद्वीपाधिपः सुताम् ।
निमग्न सागरावते सोऽभ्ययादलका खयम् ॥ १३९६ ॥
तूणे समुद्रमुत्तीर्य संबन्धिनि नराधिपे ।
पुत्रीवियोगविधुरे संप्राप्ते बल्लभासखे ॥ १३९२ ॥
महासेनपुरं तारं चचाराक्रोशनारवः ।
समानदुःखसङ्गेन बाष्पप्रन्थिहि भिद्यते ॥ १३५३ ।।
शनैराश्वासितास्तेऽथ वृद्धामात्यपुरःसरैः ।
बहवः सागरे तीर्णा दृष्टा इति निदर्शनेः ।। १३५४ ॥
ततस्तौ भूपती तत्र सभार्यो शोककर्शितौ ।
अभूतां नियताहारौ शिवार्चनपरायणौ ॥ १३६९ ।।
अत्रान्तरे राजपुत्रः सुहृदा सह दुःखितः ।
प्राप्तः सुन्दरसेनस्तं मतङ्गाश्रमकाननम् ।। १३५६ ॥