पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९४
काव्यमाला ।

उवाच तत्समाश्वाससुधया लब्धजीविता ।। १३३० ।।
हंसद्वीपपतेः पुत्री हताशा भगवन्नहम् ।
पित्रा सुन्दरसेनाय विसृष्टाम्भोधिवर्मना ॥ १३३१ ॥
अचिरप्रस्तुतोद्वाहा भन्ने प्रवहणे विभो ।
तीरेऽस्मिन्सलिलैः क्षिप्ता जीवामि कठिनाशया ॥ १३३२ ।।
निषधाधिपतेः पुत्रः प्राप्तो नापन्यया मया ।
श्रीमान्सुन्दरसेनोऽसौ वरो दिव्यवरोचितः ।। १३३३ ।।
इत्युदश्रुदृशस्तस्या निशम्य वचनं मुनिः ।
निनाय पुत्र्या सहितस्तामाश्चात्य निजाश्नमम् ॥ १३३४ ॥
भविष्यत्यचिरादेव तवेप्सितसमागमः ।
इति तत्र तदादिष्टा कंचित्कालमुवास सा ॥ १३३५ ॥
अस्मिन्नवसरे तीवमन्मथानलतापितः ।
दूतैः सुन्दरसेनोऽपि ज्ञात्वा पुत्री प्रतिश्रुताम् ॥ १३३६ ।।
राज्ञा मन्दरदेवेनं कृतार्थोऽस्मीति वादिना ।
अक्षमः कालसहने सामात्यः पितुराज्ञया ।। १३३७ ॥
प्रतस्थे विपुलानीकैर्विवाहोचितया श्रिया ।
हंसद्धीपं हरिखुरोट्टङ्कितावनिमण्डलः ॥ १३३८ ॥
स शशाङ्कपुरं प्राय्य क्रमेण जलधेस्तटे।
राजा महेन्द्रादित्येन पूजितः सादरं गृहम् ॥ १३३९ ॥
तमेवाने समाधाय सोत्साहं सचिवैः सह ।
आरुरोह अवहणं तूर्ण परिणयोत्सुकः ॥ १३४० ॥
ततः संहारपिशुनैरकाण्डोचण्डमारुतैः
समुद्भूतैर्महाम्भोधावरज्यत सचेटकः ॥ १३४१ ॥
बाहुभ्यां तरणोधुक्ताः पवनप्रेरितैर्जलैः ।
पृथक्तीरेषु विन्यस्ताः सर्वे प्रवहणाश्रयाः ॥ १३४२ ॥
एकेन सुहृदा साथै तीरं प्राप्य नृपात्मजः ।
अचिन्तयद्विलसितं भुजङ्गकुटिलं विधेः ॥ १३४३ ॥