पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशावत्यास सहावत्यालायिका
३९३
ब्रुहत्कथमञजरी

अयोदलिद्यालोलविधुपिललोचना
समालजालमलिनो गर्जेजलदराक्षसः ॥ १३१८॥
तदुद्भूतमहावादबल्यावर्तनर्तितः ।
कैलाशशिखराकारतरङ्गः सागरोऽभवत् ॥ १३१९ ॥
लेन कल्यान्तसंरम्भगम्भीरेण नभखना ।
अभज्यात प्रवणं राजपुत्र्याः कृतश्रमम् ।। १३२० ॥
किमेतदिति निस्पन्दचेतनामोहविष्टवैः ।
वीचिहस्तैस्ततो न्यस्ता भवितव्यतयैव सा ॥ १३२१ ।।
तत्र संज्ञा समासाद्य चिरातललोचना।
एकाकिनी त्रासशोकशातकाकुलाभवत् ।।
!! १३२२ ॥
तालतालीवनश्यामे निर्जने जलधेस्तटे ।
बनाम चक्रवाकीव बाला तारपलापिनी ।। १३२३ ।।
स्तनस्तबकिनी तस्याः साजनैर्वाष्पबिन्दुभिः ।
आलीनभृङ्गमालेच बभूव तनुवल्लरी ॥ १३२४ ॥
वीक्ष्य शून्या दश दिशो निश्चलोत्पललोचना ।
अस्तव बालहरिणी क्षिप्रमुत्कन्धराभवत् ॥ १३९५ ॥
हा तात हा प्रियतम व नु व्यग्रोऽसि पश्य माम् ।
इति चक्रन्द सा तुन्वी दृषदामपि दारुणम् ॥ १.१२६ ॥
अत्रान्तरे महाम्भोधिवेलाविरचिताश्रमः ।
सं. देशमागतः लातुं मतङ्गो मुनिपुंगवः ॥ १३२७ ।।
यमुनाभिधया पुत्र्या सहितस्तां ददर्श सः ।
बिलापक्षामवदनां निःश्वासग्लपिताधराम् ॥ १३२८ ।।
ता वीक्ष्य करुणासिन्धुः सान्त्वयन्मुनिरनयीत् ।
समाश्वसिहि मा भैषीः पुत्रि मा विलवा भव ।
अस्यां तनौ न विपदश्चिरं तिष्ठन्ति सुन्दरि ॥ १३२९ ।।
इत्युक्त्वा तेन सा पृष्टा कारुण्याद्दुःखकारणम् ।
१. वृषं किमपि