पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९२
काव्यमाला ।

इत्युक्ता तैलिलेखाथ तापसी भूमिपात्मजम् ।
अविसंवादिलावण्यं संक्रान्तमिव दर्पयो ॥ १३०६ ॥
दृष्ट्वा लिखितं चित्रे तुल्यं राजसुतं तथा ।
साधु साध्वित्यभाषन्त प्रहोंत्फुल्ललीचनाः ॥ १३०६ ॥
तापस्यां प्रतियातायां राजपुत्रस्ततोऽभवत् ।
अरतिस्मरतापानां कराकरमिवागतः ॥ १३०७ ॥
श्वासताम्राधरदलो ध्यानस्तिमितलोचनः ।
आपाण्डुगण्डः कदलीदलशय्यां ततोऽभजत् ॥ १३०८॥
विज्ञाय तत्सुहृद्वाक्यात्पुत्रं कामज्वसतुरम् ।
तापसीकथितं कन्यावृत्तान्तं च निशम्य तत् ॥ १३०९।।
महासेनोऽथ दूतेन हंसद्वीपाधिपं सुताम् ।
योग्यां सुन्दरसेनाय ययाचे दिक्षु विश्रुताम् ॥ १३१० ॥
लिखितं चित्रफलके राजपुत्रमदर्शयत् ।
महासेनविसृष्टोऽसौ दूतस्तत्र महीभुजे ॥ १३११ ॥
हंसीपाधिपः पुन्यै चित्रस्थं भूमिपात्मजस् ।
प्रदिश्य तत्त्रयाण्णाय प्रति दूतं समादिशत् ।। १३१२ ।।
मन्दारवत्यथालोक्य तं कान्तं प्रतिमापदम् ।
बभूवाभिनवोद्भिन्नमनोभवविभूषिता ॥ १३१३ ॥
ततस्तचिन्तनैकामा तत्सौन्दर्यकथादरा ।
भेजे प्रलापिनी तायं हृदयान्ते मुखनिया ॥ १३१४ ॥
कान्तां विज्ञाय तां तुल्यवरव्यासक्तमानसाम् ।
आपादसहमानां च कालं परिणयोत्सवे ॥ १३१५ ॥
विससर्ज प्रवहणैर्महासेनपुरी खयम् ।
पुत्री मन्दरदेवोऽथ हृष्टो दासीशतैर्वृताम् ॥ १३१६ ॥
रवपूर्ण प्रवहणं सा समारुह्य सोत्सुका ।
जनता जलधर्मध्वं तरावर्तभीषणम् ॥ १३१७ ।।