पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्गवत्याम्-मन्दारवत्याख्यायिका
३९१
बृहत्कथामञ्जरी

सा प्राह राजपुत्रास्ति हंसद्वीपनराधिपः ।
श्रीमान्मन्दरदेवाख्यो राजसागरमन्दरः ।। १२९३ ।।
तस्य मन्दारवत्याल्या तनयास्ति सुलोचना ।
यां विधाय विधमन्ये चिरादुच्छसितं मनः ॥ १२९४ ॥
मासि मासि समभ्यस्य विधिः शङ्के शशिक्रियान् ।
तन्मुखाशेषसादृश्येनैवाद्यापि प्रगल्भते ॥ १२९.९ ॥
चन्दुस्पर्धेव लजायै दूरे जलजसंकथा ।
तन्मुखस्योपमापात्रं स्वविम्वं यदि दर्पणे ।। १२९६ ॥
सौन्दर्यवसन लोके सा च संवननं दृशः ।
तथा च पश्य चित्रस्थं तदाकारं ददाम्यहम् ।। १२१७ ॥
मयेयं लिखिता तत्र तत्सौन्दर्यानुरक्तया ।
एवंविधा सुधामूतिर्नेत्राभ्यां लभ्यते कुतः ।। १२९८ ।।
इत्युक्त्वा कौतुकज्ञाय राजपुत्राय तां ददौ ।
चित्रस्यां वीक्ष्य तां सोऽपि चित्रन्यस्त इवाभवत् ।। १२९९ ।।
साक्षादिव स्थितां दृष्ट्वा किंचिद्वक्तमिवोधतः ।
स तां प्रदध्यादाक्रान्तौ विसयेन मयेन च ।। १३०० ॥
यस्त्राः कान्तितरङ्गिणी स्तनतटे हारांशुकनोज्यले
बेवीचीचटुले विलाससुभगे वक्रे रुचिस्यन्दिनि ।
लावण्यामृतविभ्रमे कृतमहावः च नाभीदे
मजन्तीव मशर्पिता सरभरादानन्दगुा इशः ॥ १३० १ ।।
इत्युक्त्वा सर्ववृत्तीना निर्दिशन्नेव नेवताम् ।
योगीव तन्मयः क्षिप्रं निर्विकल्पो बभूव सः ॥ १३०२ ।।
तं वीक्ष्य पुलकापूर्ण खेदबिन्दुविराजितम् ।
ध्यात्वा तत्सचिवाः प्राहुस्तापसी विस्मयाकुलाः ।। १३०३ ।।
आर्ये तत्सदृशी कन्या चित्रस्था कैः प्रतीयते ।
लिख्यता राजपुत्रोऽयं सादृश्ये कुशलासि चेत् ।। १३०४ !!


'मुखम् ख.