पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९०
काव्यमाला ।

स लोलकुण्डलासक्तलसन्मरकतांशुभिः ।
बभौ विभूषितो भोगिभोगैरिव महेश्वरः ॥ १२८० ॥
व्यूढोरस्कं हरिस्कन्धं प्रांशुं कमललोचनम् ।
तं वीक्ष्य पौरललना बभूवुमन्मथाकुलाः ॥ १२८१ ॥
मोदायितैः कुट्टमितैम्मितैः किलकिञ्चितैः ।
तासां तद्दर्शनोद्भूतैरयं किल सखीजनः ।। १२८२ ॥
महोत्सवं समालोक्य कामिनीनयनोत्सवः ।
अपरेधुर्मूगरणक्रीडायै सानुगो ययौ ॥ १२८३ ।।
तं ब्रजन्तं ददर्शाथ यहच्छासंगता पथि ।
प्रौढा कात्यायनी नाम तापसी कौतुकाकुला ॥ १२८४ ।।
आश्चर्यशालिनी पृथ्वी भ्रान्त्वा सा वीक्ष्य तं पुरः ।
विस्मयस्तब्धनयना लिखितेवाभवत्क्षणात् ॥ १२८५ ॥
अभिनन्द्य तमाशीभिः प्रहृष्टा गन्तुमुद्यता।
अनेकसेवकासक्तशा तेन न बीक्षिता ॥ १२८६ ॥
सदर्पमिव तं मत्वा किंचिदुच्चैरुवाच सा ।
अहो नु रूपसंमत्तो राजपुत्रो मदाकुलः ।। १२८७ ॥
हंसद्वीपपतेः पुत्रीं कान्तां दारवतीं यदि ।
प्रामोति तन्न जानीमः कीदृशोऽयं भविष्यति ॥ १९८८ ॥
इति तद्वचनं श्रुत्वा सेवका गर्वमन्थरम् ।
न्यवेदयन्समभ्येत्य राजपुत्राय विस्मिताः ॥ १९८९ ॥
स तामानाव्य पप्रच्छ प्रणम्य विनयानतः ।
यथोक्तमवदरसा च पृष्टा तेन पुनः पुनः ॥ १२९० ।।
सानभोजनसन्मानैः पूजनीयेयमित्यथ ।
आदिश्य मन्त्रिणं. प्रायान्मृगयायै नृपात्मजः ॥ १२९१ ॥
ततः परिनिवृत्याशु राजधानीमुपेत्य ताम् ।
त्यप्रच्छ पुनरकान्ते सचिवैः सह निर्वृतः ॥ १२९२ ।।


'पोका ख.