पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८८
काव्यमाला ।

ततो दुःखात्तनुत्यागसंभृता मुनिसूनुना ।
वयं नीताः समाश्वास्य शुभच्छायं तपोवनम् ।। १२९४ ॥
तत्र कण्वमुनिः साक्षात्कृशानुरिच तेजसा ।
ब्रह्मलोक इवानेकैः सेव्यमानो मुनीश्वरैः ।। १२६५ ॥
अरौद्ररूपः सततं जितकालमनोमवः ।
अकृष्णचरितः पुण्यसमाधानपदाच्युतः ॥ १२५६ ॥
कृष्णाजिनोत्तरासङ्गस्तेजसा पिङ्गलच्छविः ।
अजासन इवाजोत्थभङ्गमालारजः श्रितः ॥ १२९७ ।।
दृष्टोऽस्माभिः कुलगृहं शमसंतोषसंपदाम् ।
स हस्ततलविन्यस्तमुक्तायितजगत्रयः ।। १२५८ ॥
सोऽस्सान्विलोक्य शोकार्तानाकासान्कथां च ताम् ।
उवाच करुणासिन्धुः पीयूषं विकिरन्निव ॥ १२९९ ।।
तेन दन्तांशुनिवहैः पूरिता विबभुर्दिशः ।
सोमपानसमुद्भीणैरिव शीतांशुसंचयैः ।। १२६० ॥
विचित्रकर्मनिर्माणैर्भवन्त्येव भवेन्नृणाम् ।
संयोगैश्च वियोगैश्च सुखदुःखे विपर्ययाः ॥ १२६१ ॥
मा निमजत निष्पारे विस्फारे शोकसागरे।
तूर्ण मृगाङ्कदत्तेन भविता वः समागमः ॥ १२६२ ॥
पुरा सुन्दरसेनस्य राजसूनोरभूञ्चिरात् ।
मार्यया च सुहद्भिश्च हारितैरिह संगमः ॥ १२६३ ॥
श्रुत्वेति पृष्टः सोऽस्माभिर्मुनिभिश्च सकौतुकैः ।
तत्कथां प्राह भगवान्कृत्वा निखिलमाह्निकम् ॥ १२६४ ।।
अलका नाम नारी निधेष्वस्ति विश्रुता।
यस्यां पौरवधूवर्जायते दिनकौमुदी ॥ १२६९ ।।
यस्याः सुरगृहाश्वेतपताकापतिभिर्मुहुः
बहुधा विप्रकीर्णव दृश्यते व्योम जाहवीं ॥ १२६६ ॥


प्रविच

स्या सोशशिर