पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८७
बृहत्कथामचरी।

इति दिव्यवचः श्रुत्वा धृति प्राप नृपात्मजः
पूजयित्वा नृपवरं तुष्टाव प्रथमप्रभुन् ॥ १२४२ ।।
गजेन्द्र जयति स्फुरत्पृथुलकान्तिसदैर्ध्यभृ-
च्छशीव विशदो रदस्तव मुखोदयाद्रेतदे।
बिलासरसफूत्कृताकुलकपोलभृङ्गावली
निशाप्रणयिसीकरप्रकरहारतारागणः ॥ १२४३ ॥
गणेश्वरमिति स्तुत्वा द्वादशाहमुपोषितः ।
स्वप्ने तद्वरमासाद्य वाञ्छितं प्राध्स्यीत्यथ ।। १२४४ ॥
प्रीतः अबुद्धः सचिवान्ददर्श प्रणतान्दश ।
तान्दृष्ट्वा विस्सवाविष्टो हृष्टः प्राह मुदान्वितान् ॥ १२४५ ।।
अहो नु विपुलो लाभः कोऽप्यरण्ये समोदितः ।
यदहं सुहृदो लब्ध्वा प्रीतः शेषैः सहाभरैः ।। १२७६ ।।
हृहमुष्टे मेघबलस्थूलवाहो सुदुःसहः ।
व्यानसेन व युष्माभिमद्वियोगोऽतिवाहितः ॥ १२४७ ।।
सप्तभिः साहितेलेति चतुर्यु नृपसूनुना ।
पृष्टेषु तेषु मतिमा व्यानलेनोऽभ्यभाषत ।। १२४८ ॥
खति देव वयं तत्र लेन नागेन शापिताः ।
क्षिताः पारापताक्षेण दिक्षु मोहविमूर्छिताः ।। १२४९ ॥
ततोऽहं निशि नीरन्छे नीलशैलशिलाधने ।
तिमिरे शोकतिमिरैरभवं नष्टचेतनः ।। १२५० ॥
सहस्रयामेव चिरान्नियामा यमकाङ्गिणाः ।
अटव्यां सा मया नीता दुनीतेनेव दुःखदा ॥ १३६६ ।।
ततः प्रभाते संधान्य सरो विकचपङ्कजम् ।
निषण्णोऽहं कृतवानस्तीरे चिन्तानलाकुलः ॥ १२९२ ॥
तत्रापश्यमायातान्क्रन्दितोच्छूनलोचनान् ।
दृढमुष्टिं मेघवलं स्थूलबाहुं च संगतान् ॥ १९५३ ।।