पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८६
काव्यमाला ।

प्रावृषेण्यघनश्यामैर्वराहैः सेवितान्तरम् ।
चक्रवाकवियोगामिधूमपुञ्जरिवामृतम् ॥ १२२९ ।।
लोलाम्बुजदलभ्रान्तैर्मुक्ताभैर्जलबिन्दुभिः ।
दर्शयन्तमिवाञ्चय संसारे तरलां स्थितिम् ।। १२३० ।।
मुहुः करिकुलाकृष्टविशदण्डविपाण्ड्डुरम् ।
कुमुदाकान्तचन्द्रांशुसहस्तैरिव पूरितम् ॥ १२३१ ॥
तद्विलोक्य जहुः क्लान्ति ते हर्षविकचेक्षणाः ।
दृष्टमात्रा दिष्टन्त्येव संतोषं विपुलाशयाः ॥ १२३२ ।।
पश्चिमें तस्य विस्तीर्ण तीरे शाखासहस्त्रिणम् ।
विशालं फलपुष्पाढ्यं ददर्श वरपादपम् ॥ १२३३ ।।
ऐश्वर्यमिव सेच्छायमभिमानमिवोन्नतम् ।
सौहार्दमिव संश्लिष्टं संतोषमिव सौख्यदम् ॥ १२३४ ।।
तं वीक्ष्य संपदा पात्रं सेव्यसंतापवारणम् ।
सर्वाशापूरणे शक्तममिजातमिवेश्वरम् ॥ १२३९ ।।
मृगाङ्कदत्तसचिवाः सहसा श्रुतधिं विना ।
हर्षादारुरुहुभूरिफलं भोजनवाञ्छया ॥ १२३६ ॥
शाखान्तरालं संप्राप्ताः क्षिप्रमन्तर्हितास्ततः ।
मृगाङ्कदत्तो विक्रोशन्नापश्यत्सुहृदोऽथ तान् ॥ १२३७ ॥
स. तद्विरहविधुरो मुमोह पतितः क्षितौ ।
बीज्यमानः श्रुतधिना पल्लवैधृतिमाप्नुयात् ॥ १२३८ ।।
ततः शरीरमुत्सृष्टुं राजपुत्रं समुद्यतम् ।
दुःखार्तस्य सरित्तीरे वागुवाचाशरीरिणी ॥ १२३९ ॥
देवो गणाधिनाथोऽयं खेच्छातरुवराकृतिः ।
एतदुल्लङ्नात्तस्य शाखासु फलतां गताः ।। १२४० ॥
तपसाराध्य हेरम्ब तत्सङ्गं समुपेष्यसि ।
अन्यथा दुर्लभा मुक्तिस्तेषां वर्षशतैरपि ।। १२४१ ।।


१. 'व्य' ख. २. मन्यते' ख.