पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाश्वत्या बेतालपञ्चविंशतिका ।।
३८५
बृहत्कथामञ्जरी

ततः साक्षात्समस्येत्य ब्रह्मविष्णुमहेश्वराः ।
प्रशशंसुनैरपति बरैश्च समपूजयन् ॥ १२१७
तं प्राह भगवान्विष्णुस्त्वं समांशो महीयते ।
जातोऽसि विक्रमादित्य पुरा म्लेच्छशशाङ्कतः ॥ १२१८ ।।
त्वं त्रिविक्रमसेनोऽथ राजवंशविभूषणम् ।
भोगापवर्गसुभगां भुक्त्वा विद्याधरश्रियम् ॥ १२१९ ।।
त्रिपुरारिवरामाच्य विद्याभृचक्रवर्तिताम् ।
निजं प्रविश्य नगर प्रभाते स बसौ भिया ।। १२९० ॥
इत्यूर्वी वलये तुषारनिकरस्पष्टाहासन्छविः
पाताले फणिनायकम्फुटफमा विस्फाररलोज्वला ।
योन्नि ब्रह्मविमानहंसाविकसनशान्तिप्रकाशद्युति-
स्तस्याकल्पमनल्पपुण्यपदची गङ्गेव कीर्तिर्वभौ ।। १२२१ ॥
इति पञ्चविंशो बेतालः ॥ २७ ॥
इति विनः समाश्वास्य ददौ में मन्त्रमुत्तमम् ।
येन सिद्धेन बेतालः स मया वाहनीकृतः ॥ १२२२ ।।
तत्तभावान्मया-दृष्टस्त्वनिहस्थः समागतः ।
इत्युक्त्वा हर्षमतुलं. लेभे विक्रमकेसरी ॥ १२२३ ॥
मृगाकदत्तस्तच्छ्रुत्वा तां शशाङ्कवती स्मरन् ।
व्रजन्नुज्जयिनी माप सोऽटवीं निर्जलद्रुमाम् ॥ १२२४ !!
ग्रीष्मोधमाश्लेषविषम वर्मोत्तीर्य क्रमेण ते ।
तृष्णासंतापविधुरा ददृशुर्विशदं सरः ॥ १२२५ ।।
व्याप्तं विकाशिमिः पझैः सरसैर्गुणशालिमिः ।
श्रुत्वा मृगाङ्गनानीतं होकदकितैरिव ॥ १२२६ ।।
ललनालोचनौपम्यपत्रैरुत्पलसंस्तरः
कृष्णवक्षस्थलप्रीति बिधानमिन श्रियः ॥ १२२७ ॥
हंसांसघटितस्कार फेनोर्मिवलयोज्वलम् ।
इन्दुगर्भासुतोत्तुङ्गतरङ्गमिव सागरम् ॥ १२२८ ।।