पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
काव्यमाला ।

ततो वाच्यो मृदुगिरा स दुष्टः श्रमणः स्वयम्
अहं समस्तसामन्तमौलिनीताशिपङ्कजः ।
अशिक्षितप्रणामोऽहं तं त्वमेव प्रदर्शय ॥ १२०५ ॥
इति त्वयोक्तः स यदा प्रणाम दर्शयिष्यति ।
तदा खड्नेन हन्तव्यो हन्ति त्वामन्यथा तु सः ॥ १२०६ ।।
स चक्रवर्तितां प्राप्तुं विद्याधरधराभुजाम् ।
समीहिते पशुं कृत्वा त्वां त्रैलोक्यविभूषणम् ॥ १२०७ ।।
इति सवै तवाख्यानं स्वस्ति तेऽस्तु बजाम्यहम् ।
प्रायादुक्त्वेति वेतालो निर्गत्य प्रेतविग्रहात् ॥ १२०८ ॥
राजापि शवमादाय शान्तिशीलान्तिकं ययौ।
यामिन्यां भागशेषायामुत्साहविपुलेक्षणः ॥ १२०९ ।।
इति चतुर्विशो वेतालः ॥ २३ ॥
तमागतमथालोक्य क्षान्तिशीलः प्रगष्टधीः ।
अनार्यो धर्ममर्यादां तस्योच्चैः प्रशशंस सः ॥ १२१० ॥
ततश्चितारजःशुभ्रमण्डले बहुलाञ्छने ।
नृरक्तपूर्णकलशे महातेज़ोरुदीपके ।। १२६१ ॥
उत्तारिते. शवे तेन दक्षिणाभिमुखो ब्रेती ।
नररक्तकृतार्पण नेत्रधूपेन मन्त्रवित् ॥ १२.१२ ।।
अथास्य स वेतालं बलिं पुष्पैनिरन्तरैः ।
उवाच श्रेयसे राजन्मणामः क्रियतामिति ॥ १२१३ ।।
नयोऽब्रवीन्नाम्यभिज्ञः प्रणाम दर्शय स्वयम् ।
श्रुत्वेत्यदर्शयत्सोऽस्मै प्रणति देवमोहितः ॥ १.२१.४ ।।
तमष्टाङ्गप्रणामस्थं निजधानासिना नृपः ।
छित्वाथ शीर्ष तत्तूर्णमुद्धृत्या विधि व्यधात् ॥ १२१५ ।।
पुष्पवर्षे निपतिते वेतालः प्रददौ वरम् ।
राज्ञः कथेय त्रैलोक्यपूजनीया भवन्विति ॥ १२१६ ॥