पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाश्वत्थाम्वेतालपञ्चविंशतिका ।
३८३
बृहत्कथामञ्जरी

अत्रान्तरे मृगकुलक्रीडारसकुतूहली ।
क्षत्रियश्चण्डसिंहाख्यः सपुत्रः प्राय तद्वनम् ॥ ११९२ ॥
नारीचरणमुद्रां तौ तन्त्र पांशूचयश्रियाम् ।
विस्मय जग्मतुर्वीक्ष्य रम्यलेखाविभूषिताम् ।। ११९३ ॥
लघुपादाम्बुजामेकां मत्वा दीर्घालि पराम् ।
चण्डासिंहः सुतं प्राह हर्षात्सिंहपराक्रमाम् ॥ ११९४ ।।
कान्तायुगलमेतन्नो यदि दृक्पथमेष्यति ।
तदेश दीर्घचरणा योग्या मे तब चापरा ॥ ११९६ ।।
इत्युक्त्वा नर्मवचने कृत्वा तौ सत्यसंविदौ ।
प्रापतुर्वीक्ष्य यल्लेन पूर्णेन्दुवदनायुगम् ॥ ११९६ ॥
तौ प्राप्य ललिते नायौँ स्मृत्वा तां निजसंविदम् ।
लेभाते स्वगृहं गत्वा ताभ्यां स्मरमहोत्सवम् ॥ ११९७ ॥
कन्यां विशालचरणां चण्डसिंहोऽभजत्ययम् ।
चण्डसिंहसुतः प्राय तां कन्याजननीमपि ॥ ११९८ ।।
इति तो सत्यवचसा बद्धौ विनिमयेन च।
लब्ध्वा भार्या सुताः काले प्रापतुस्तनयास्तथा ।। ११९९ ॥
वर्णयित्वेति बेताल पच्छ पृथिवीपतिम् ।
ते तयोर्वेशसंभूताः के भवन्ति परस्परम् ॥ १२०० ।।
इति पृष्टो नृपः प्रायादजानन्प्रश्ननिर्णयम् ।
तेनाथ तुष्टो वेतालः प्रशंसंस्तमभाषत ।। १२०१ ।।
अनेन राजधैर्येण तब प्रज्ञाबलेन च ।
रोमाञ्चकर्कशः कायः कस्य नाम न जायते ॥ १२०२ ।।
पापोऽसौ शान्तिशीलस्ते प्रस्तुतो विपुले छले !
प्रपञ्चनीयो बलेन क्षिप्रं बुद्धिमता त्वया ॥ १२०३ ।।
घोरे महाप्रेतयागे स त्वा वक्ष्यति दुर्मतिः ।
अष्टाङ्गकृतभूस्पर्शः प्रणामः क्रियतामिति ॥ १२०.४ ।।