पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८२
काव्यमाला ।

बाल्ये विवर्वित मात्रा यौक्ने सेवितं सुखैः ।
जीर्णमद्य त्यजामीति स रुरोदातिदुःखितः ।। २१८० ॥
पुनः प्रविश्य सिद्धि में जाता सद्भतशालिनः ।
इति प्रहर्षाहपच्चि ननावर्तितोत्सवः ।। ११८१ ॥
इति श्रुत्वेति वेतालो ललम्बे शिंशियातरुम् ।
नृपोऽपि गत्वा तं तूर्णमानिनाय महाशयः ॥ ११८२ ॥
इति त्रयोविंशो वेतालः ॥ २५ ॥
पुनः स्कन्धस्थितः प्राह निर्बन्धोऽयं महामते ।
भोक्तुं गच्छ श्रियं राजन्न चेदेका कथां शृणु ।। ११८३ ।।
दाक्षिणात्यो नरपति(मान्नाम महाबलः ।
शत्रुभिर्विजितः पल्या पुत्र्या च सहितो ययौ ॥ ११८१ ॥
तद्भार्या चन्द्रवल्याख्या कन्या लावण्यवत्यपि ।
दूराध्वखेदिते चन्द्रविलासे खेदितः शनैः ॥ ११८५ ॥
ताभ्यां सहैव भूपालः समुत्तीर्य महाटवीम् ।
भिल्लपल्लीवनं प्राय छादितं द्वीपिचर्मभिः ॥ ११८६ ।।
मयूरपत्रवसनैर्गुञ्जास्रग्दामशेखरैः ।
शबरैराचित संध्यारक्तशृङ्गैरिवारिभिः ॥ ११८७ ॥
तत्र तैः स महीपालो रनभूषणलोलुपैः
निहतानेकशबरः पतितः संमुखो रणे ॥ ११८८ ॥
तस्मिन्हते भयात्रायाहित्रा सह तद्वधूः ।
शार्दूलपातवित्रस्ता. हरिणीव सुलोचना ॥ ११८९ ॥
सा गत्वा दूरमुकम्पिकुचोणीभरालसा ।
पुच्या त्रासचलनेत्रनीलोत्सलरुचा सह ॥ ११९० ॥
वनं प्रविश्य लवलीलवझैलालताकुलम्
निधनाद सरस्तीरे कमलामोदमन्दिरे ॥ ११९१ ।।


हिंदवि ख.