पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८०
काव्यमाला ।

अस्थिसंपादिनी विद्यां जानामीत्यग्रजोऽभ्यधात् ।
तन्मांसयोजनज्ञोऽहमित्युवाच ततः परः ॥ ११९४ ॥
त्वनोमन्यासकुशलस्तत्रास्मीत्यपरोऽब्रवीत् ।
जीवितार्पणविज्ञाने दक्षोऽस्मीत्येव तत्परः ।। ११६५ ।।
विद्याप्रमावं ते द्रष्टुं मिथस्तत्र सकौतुकाः ।
दैवादवापुः सिंहस्य कीर्णजीर्णास्थिसंचयम् ॥ ११९६ ॥
तं समग्रं समांसं च कृत्वा त्वयोमसंकुलम् ।
क्रमैश्चतुर्थो विद्यानां पञ्चाननमजीवयत् ॥ ११९७ ॥
दंष्ट्राविटकवदनः क्षुत्क्षामः समजायत ।
जघान तीक्ष्णं करजैः पुरस्ताविजपुत्रकान् ॥ ११५८ ॥
कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ।
ब्रूहि राजन्द्विजवधोद्भूतं तत्कस्य पातकम् ॥ ११९९ ।।
इति पृष्टोऽब्रवीद्राजा यो मृगेन्द्रमजीवयत् ।
तस्य तत्पातक धोरमन्येषां नास्त्यसंशयम् ॥ ११६० ॥
इति श्रुत्वेति वेतालो गत्वा युनरलम्बत ।
नृपोऽपि तं गृहीत्वा तु प्रायादतुलविक्रमः ॥ ११६१ ॥
इति द्वाविंशो वेतालः ॥ २४ ॥
भूयः स्कन्धगतः प्राह वेतालो बत भूपते
नास्मादद्यापि निर्बन्धाद्विरतोऽसि कथां शृणु ॥११६२ ॥
यज्ञस्थलाग्रहारेऽभूत्कलिङ्गविषये द्विजः ।
यज्ञसोमाभिधः सोमपानपूतः कुलोद्गतः ॥ ११६३ ॥
मार्यायां सोमदत्तायां तेनाजनि गुणी सुतः ।
शशाङ्कविशदाकारो बाल्येऽपि विपुलश्रुतः ॥ ११६४ ॥
कालेन यौवनं प्राप देवस्वामी स तत्सुतः ।
विद्याविनयसौभाग्यलावण्यामृतपूरितः ॥ ११३५ ॥
स कृतान्तस्य नैघेण्यात्कालस्य कालशासनात् ।
पूर्वकनोमिवैचिच्यालाययौ पञ्चतां युवा ॥ ११६६ ।।